________________
१२
नृ० १० को०- उल्लास १, परीक्षण १
नाट्याचार्य उपेत्य तत्तदुचितप्रावीण्यविद्भिः समं वयैः संविदधाति रूपकविधेस्तं पूर्वरङ्गं सुधीः ॥ अभिनेयार्थतादात्म्यपटुः स्फुटतरो नटः । पदार्थाभिनयाचित्रं व्यञ्जयन् स्यात् तदग्रतः ॥ रसाभिधायकं नाट्यशब्दे नाव्येऽपि वृत्तितः । लक्षणाया वर्तमानमुभयं दर्शयन् स्फुटम् ॥ तथा च नृत्यशब्दार्थमुभयानुग्रहं वदन् । नृत्ये चाभिनये साक्षाद् वक्ति लक्षणयान्वयम् ॥ नाट्येनाभिनयं नृत्यशब्देन च रसं पुनः । वृत्त्या लक्षणया साक्षादुभयं दर्शयन् पदम् ॥ करणाङ्गहारनिचयैर्नृत्तमत्रोपदर्शयन् । रसः सभ्ये नटे वास्य विकलस्य जिहीर्षया ॥ स्वात्मानं तन्मयं कुर्वन्निव रङ्गमुपाश्रयेत् । ततः कुतपविन्यासाद्यङ्गप्रचयपेशलम् ॥ सूत्रधारः पूर्वरङ्गं प्रयुङ्क्ते नाट्यतत्त्वगम् । यतो रसात्मकस्यास्य प्रयोगे प्रयुयुक्षिते ॥ रज्यते वै सहृदयैः पूर्वरङ्गस्ततः स्मृतः । संपादभागः सकलः परिवर्तैः समन्वितः ॥ प्रयोगोऽयं यतो रङ्गे पूर्वमेव प्रयुज्यते । तेनोक्ता भरताचार्यप्रमुखैः पूर्वरङ्गता ॥ रङ्गशब्देन तत् कर्मोच्यते तौर्यत्रिकाश्रितम् । तत्पूर्वभागो विद्वद्भिः पूर्वरङ्ग उदीरितः ॥ सोपोहनास्तद्विना वा ध्रुवा उत्थापनीमुखाः । सूत्रधारप्रवेशार्था यतोऽस्मिन् पूर्वमेव हि । प्रयुज्यते ततः पूर्वरङ्गता वास्य संमता ॥ चतुरस्र यत्र भेदाद् द्विविधः स पुनर्द्विधा । शुद्धचित्रविभेदेन पृथगेवं चतुर्विधः ॥ करणाङ्गहारराहित्यं शुद्धता चित्रता पुनः । तत्सद्भावोऽथ चित्राद्यैर्मार्गैर्भिन्नवायुतः ॥ 1 BO प्रयुते ।
·
[पं
१२४
१२५
१२६
१२७
१२८
१२९
१३०
१३१
१३२
१३३
१३४
१३५
१३६
१३७