________________
० को०-उल्लास १, परीक्षण १ [नाव्यशालानिया मुहूर्तेनानुकूलेन भूलेन अवणेन था। रोहिण्यां 'वोपोषितः सनुपाध्यायः समाहितः॥ ५५ स्तम्भाना स्थापनं कुर्याल्लने सद्ग्रहवीक्षिते। सुशिल्पिघटिताः स्थाप्याः कुम्भिकाः पूर्वमेव ताः॥ . अन्तर्बहिर्मानसूत्रादर्धेन स्युः स्थिरं स्थिताः। अग्निकोणं पुरस्कृत्य स्तम्भाः स्युर्ब्राह्मणादयः ॥ खर्णताम्ररूप्यलोहस्तन्मूलेऽनुक्रमात् क्षिपेत् । स्तम्भान् संपूजयेत् पश्चाद् वस्त्रमाल्यानुलेपनैः ॥ पीतै रक्तस्तथा श्वेतैनर्जीलैश्चैव यथाक्रमम् । पायसं गुडोदनं च कृतानं कृशरां तथा ॥ ... .. द्विजेभ्यो भोजनं दद्यात् स्तम्भानुक्रमतः सुधीः। तानुत्थाप्य शनैर्विद्वांश्चल-कम्पविवर्जितान् ॥ . स्थापयेत् कुम्भिकाशीर्षे शान्तिपाठपुरस्सरम् ।। यतस्तचलने राष्ट्रेनावृष्टिः कम्पने तथा ॥ परचक्रभयं तस्मात् तत्र यत्नो विधीयते। स्तम्भस्थापनमन्त्रोऽयं प्रणवादिनमोन्तकः ॥ यथाचलो गिरिमेंरुहिमवांश्च महाचलः। जयावहो नरेन्द्रस्य तथात्वमचलो भव ॥ अनेन स्थापितान् स्तम्भान् पश्येद् दक्षिणतो नगान् । विप्रराजन्ययोर्मध्ये भुवा खाक्रान्तया सह ॥ सौम्ये सप्तापरांस्तद्वन्मध्यतो वैश्यशूद्रयोः। एवमष्टादशैते स्युः स्तम्भाः साष्टकरान्तराः॥ भुवा खाकान्तया साकं दक्षिणेतरपार्श्वयोः। पूर्वपश्चिमयोस्तद्वद्धस्तषोडशकान्तरौ ॥ द्वौ द्वौ स्तम्भौ समारोप्यौ खार्धाकान्तभुवौ पृथक् । तयोर्मध्ये तथा स्तम्भौ साष्टहस्तान्तरौ पृथक् ॥ खार्धाकान्तभुवौ स्थाप्यौ द्वौ द्वौ पश्चिम पूर्वयोः। एवं स्युर्वसवस्तम्भाश्वार्थ' मध्यभुवि क्रमात् ॥
D
1 B0 वापा। 2 ABC °ध्याय स। 3 ABO स्तंभास्युः । 5 ABO °च॥ । 6 B0 °मर्व। 7 ABO श्वथ।
4 ABC
अलं'।