________________
७३10
नाबालानिर्माणम्] नृ० र० को०-उल्लास १, परीक्षण १
स्थितस्तम्भानुसारेण सप्त सप्तापरान् सुधी। विन्यसेत् सूत्रमास्फाल्य चतसृष्वपि पत्रिषु ॥ पञ्चहस्तमितायामान विस्तारे हस्तमात्रकान् । चतुःपञ्चाशदुदितान् सह पूर्वैमनोरमान् ॥ .. यत्पतिद्वितयं पार्थे पति मध्यतः स्थिता। तासु कोष्ठाष्टकं कार्य समन्तादष्टहस्तकम् ॥ मध्यपङ्क्तेस्तु ये पक्षी पार्श्वतः समवस्थिते। तन्मध्ये तु स्थिते पती ये ते पूर्वेऽष्टकोष्ठकैः ॥ दैर्येऽष्टहस्तकैासे चतुर्हस्तविभूषितैः। विस्तारायामयोर्यद्वा तां भूमि विभजेद् बुधः॥ द्वात्रिंशता तथा हस्तैश्चतुःषष्ट्या यथाविधि। द्वात्रिंशदेवं कोष्ठाः स्युश्चतुरस्रा मनोहराः॥
आयामे परिणाहे च करैः षोडशभिर्मितम् । .. मध्यकोष्ठचतुष्कं तु रङ्गपीठं प्रकल्पयेत् ॥
पूर्ववद्रङ्गपीठस्य वह्निकोणादिकोणगान् । ब्राह्मणाद्युपधिस्तम्भान् स्थापयेत् शिल्पिसत्तमः॥ करैः षोडशभिः सम्यगन्तरालविभूषितान् । चतुस्त्रिंशत् पुनः स्तम्भानन्यान् वेधविवर्जितान् ॥ साष्टहस्तान्तरान् विद्वान यथाभागमवस्थितान् । स्थापयेदेवमेतस्मिन्नष्टत्रिंशन्मनोहरान् ॥ यद्वा द्वात्रिंशता हस्तैरायामपरिणाहयो चतुरस्रां भुवं कृत्वा स चतुःषष्टिकोष्ठकम् ॥ मध्ये कोष्ठचतुष्केऽस्यां रङ्गपीठं प्रकल्पयेत् । रङ्गपीठात् पृष्ठभागे रङ्गशीर्ष प्रकल्पयेत् ॥ तत्पूर्वभागे नेपथ्यभवनं साधु कारयेत् । . अग्निकोणादिषु ततः क्रमेण स्तम्भवेशनम् ॥
७620
- 1 BG 'सुधी। 2 B0 चतुर्हस्तविभूषितैः षष्ट्या यथाविधिः while though A has the same reading it has these" "marks of deletion: .