________________
नापशालानिर्माणम् ] नृ० र० को०-उल्लास १, परीक्षण १ _एकैकोत्तरवृद्ध्या च क्रमावष्टगुणं त्विवम् ।
हस्ताङ्गुलानां विंशत्या चतुरन्वितया मितः॥ ... चतुर्हस्तो भवेद् दण्डो नाव्यवेश्ममिती सदा।. तत्र स्यानाकिनां वेश्म 'सप्तविंशतिदण्डकम् ॥ वैये विस्तरतस्तत् स्यात् तदर्धेन मितं पुनः। वृणां षोडशभिर्दण्डैर्मितमायामतो मतम् ॥ 'त्रिरष्टभिस्तु विस्तारे तत्र सूत्रं प्रसारयेत्। नाव्यवेश्म न कर्तव्यमत ऊर्ध्वं कदाचन ॥ . . प्रेक्षागृहाणां सर्वेषां मध्यमं मानमिष्यते । यतस्तस्मिन् कृतं पाठ्यं गेयं च अव्यतां ब्रजेत् ॥ संसाध्या भूमिरायामे पूर्वपश्चिमयोर्दिशोः। पक्षिणोत्तरविस्तारो प्रतीच्या विभजेच्च ताम् ॥ दण्डैश्चतुभिाभ्यां च द्वाभ्यामष्टाभिरेव च । चत्वारः स्युः क्रमाद् भागास्तेषु पश्चिमतो भवेत् ॥ नेपथ्यस्य गृहीतस्य पुरतो रङ्गशीर्षभूः। तवग्रतो रङ्गपीठं तत् पुरस्तात् सभास्पदम् ॥ भुवमित्थं विभज्याथ बलिं दद्यान्निशामुखे । ब्राह्मणांस्तर्पयित्वा च नानारत्नैरलङ्कृतान् ॥ मृदङ्गपटवाथैश्च शङ्खदुन्दुभिगोमुखैः।। सर्वातोयैः प्रणुदितैरुलूलध्वनिपेशलैः ।। काषायवसनादीनां पाषण्ज्यामिणां तथा। उत्सारणमनिष्टानां कृत्वा दिक्षु दशखपि। पुष्पाक्षतादिभिर्मत्रैस्तल्लिङ्गैः शुचिमानसः॥ यादृशं दिशि यस्यां स्याद् दैवतं निगमोदितम्। ताशस्तत्र दातव्यो बलिर्मअपुरस्कृतः॥ . . . सितरक्तनीलकृष्णपीतधूम्रारुणामलम् । प्रागादिदिक्पतिभ्योऽनं कल्पयेत् प्रयतात्मवान् ॥
५४
1 AB0 °श्मनिती। 2 AB0 °सप्तावि। 3 ABO तिरष्ट। ..
.