________________
नृ०र० को०-उल्लास १, परीक्षण १ [नाट्यशालानिर्माणम् वृत्तश्रमविधिस्तद्वत् संप्रदायस्य लक्षणम् । तद्गताच गुणा दोषाः क्रमेणैतत् प्रकाश्यते ॥ २८
10
15
[ नाट्यशालानिमाणम् ।] निष्पत्तिर्नाव्यशास्त्रस्य तत्पारम्पर्यकीर्तनम् । उभयं पूर्वमेवोक्तमथ निर्माणमुच्यते ॥ नाट्यशालागतं तत्र परीक्षेत भुवं पुरः। नाव्यवेश्मगतः कुर्याद् वास्तु लक्षणलक्षितम् ॥ दोषैरदूषिता भूमिः समा गौरी स्थिरा दृढा । अनूषरा भूमिदोषैः कीलकायैरदूषिता॥ लागलोल्लिखिता शस्ता तत्राणि समासतः। हस्तपुष्यानुराधान्त्यसौम्यचित्रोत्तरासु च ॥ द्विदैवत्ये दिने शस्ते विष्टयाधैरपरिप्लुते। पुण्याहवाचनाद्येन नाव्यवेश्म समारभेत् ॥ समां कृत्वा भुवं तत्र सितं सूत्रं प्रयत्नतः। कपोसाद्यन्यतरजं दृढं नूनं प्रसारयेत् ॥ · यदाकृष्टं बलात् पुम्भिनं त्रुट्यति कदाचन ।
मध्य-त्रिभाग-तुर्याशे त्रुटिते क्रमतो भवेत् ॥ विभु-राष्ट्र प्रयोक्तॄणां फलं दोषावहं तथा । हस्तात् प्रसार्यमाणेऽस्मिन् भ्रष्टेऽप्यपचयो भवेत् ॥ ततः सूत्रं दृढं कार्य नाव्यवेश्मविनिर्मिती । तत् त्रिधा गदितं वेश्म निकृष्टं चतुरस्रकम् ॥ त्र्यसं चेति पुनर्मध्यं दीर्घ सममिति द्विधा । तत्राचं देवतागारमतिदीर्घमनुत्तमम् ॥ चतुरस्रं च यद् दीर्घ भूपतीनां तदीरितम् । ब्राह्मणादेहं प्रोक्तं चतुरस्त्रं समं बुधैः ॥ शूद्रादिहीनवर्णानां वेश्म त्र्यस्रमिहोदितम् । प्रेक्षागृहाणां निर्माणे प्रमाणं विश्वकर्मणा ॥ निर्दिष्टं तत् प्रबोद्धव्यमणुश्चैव रजस्तथा। वालो लिक्षा च यूका च यवाश्चैवाङ्गुलं तथा ॥
.20
1 Boइट। 20 तर्दिष्ट ।