________________
संग्रहः] मु०र० को०-उल्लास १, परीक्षण १ तेनेदं च विराटराजदुहिता संशिक्षितात्रोत्तरा
तस्योच्छित्तिरभूदिहापि कियता कालेन तद् वै पुनः । आराध्याखिललोकशोकशमनं शम्भु नृपः साकल
स्तस्मात् साङ्गमवाप्य महँनिवहायोपादिशद् विस्तरात्॥१६ कालेनाथ पुनर्विलीनमिव तद् दृष्ट्वा गणग्रामणी
शम्भुः कुम्भनृपोपधिः प्रयतते वक्तुं विदामग्रणीः।। 'नाव्यादित्रिविधोपपत्तिकलनोपेतस्य तस्याधुना
नानार्थाभिनयप्रपञ्चरचनारम्यः क्रमो वर्ण्यते ॥
[ शास्त्रसंग्रहः।] निष्पत्ति व्यशास्त्रस्य तत्पारम्पर्यकीर्तनम् । निर्मिति व्यशालाया निवेशोऽथ सभापतेः ॥ संनिवेशः सभायाश्च सर्वरङ्गार्थकीर्तनम् । कीर्तनं पूर्वरङ्गाङ्गप्रत्याहारादिलक्ष्मणः ॥ [आदौ १] सम्यक् नान्दीलक्ष्म ध्रुवा सोपोहना ततः। पात्रस्याथ प्रवेशश्च तथैवाङ्गनिरूपणम् ॥ प्रत्यङ्गालक्ष्मोपाङ्गानां लक्ष्माभिनयलक्षणम् । हस्तस्य करणं हस्तक्षेत्रस्यापि च लक्षणम् ॥ प्रचारो हस्तयोस्तद्वद्धस्तकर्माण्यनुक्रमात्। स्थानकानि तथा चार्यों द्विविधा मण्डलान्यपि ॥ द्विविधानि तथा नृत्तकरणानि तथैव च । तानि चोत्लुतिपूर्वाणि कलासाश्च सरेचकाः॥ करणैरभिनिवृत्ता अङ्गहारा द्विधा ततः। वृत्तयश्च तथा न्यायाश्चातुर्विध्यमुपाश्रिताः॥ देशनृत्तविधिद्वैधा तथा परिवडिर्मता। नृत्तं पेरणिनस्तस्य लक्षणं पात्रलक्ष्म च ॥ लास्याङ्गानां तथा लक्ष्मोपाध्यायाचार्ययोस्तथा। नटनर्तकयोस्तबल्लक्ष्म वैतालिकस्य च ॥ लक्षणं रेचकस्याथ देशीनुत्तभिदां तथा। लक्षणं रासकादीनां लक्ष्म कोहाण्टिकस्य तु॥ 1 ABG °योगादि। 2 B0 नट्यादि। 3 ABO 'नादी। ...
-