________________
5
10
15
20
१२४
25
नृ० २० को ० -उल्लास २, परीक्षण २
पृष्ठ प्रसृतपादस्य परोर्वभिमुखं तलम् । कृत्वा पाणिः खपार्श्वं क्ष्मान्यस्त्व (? स्ता) लाता तदोदिता ॥ ४८ ॥ इत्यलाता ॥ ६ ॥
*
कुञ्चितं पादमुत्क्षिप्यास्यैव जहां प्रसार्य च । जान्वन्तां वोरुपर्यन्तां तं पादं पातयेद्भुवि । अग्रयोगेन यस्यां सा चारी सूचीति कीर्तिता ॥ ॥ इति सूचि ॥ ७ ॥
*
अश्चितं चरणं नीत्वा पृष्ठतः पाणिना स्फिजम् । स्पृशेत्तं पाद(त) पेदग्रतलेन धरणीतले । यत्र सा चारिका प्रोक्ता बुधैर्नपुरपादिका ॥ ॥ इति नूपुरपादिका ॥ ८ ॥
*
कुञ्चितं पादमुत्क्षिप्य पार्श्वयोर्दोलयेत् शनैः । पाय न्यस्येत् स्वपार्ण्यात (खपार्श्वान्तं) 'दोलापादा तदोदिता ॥ ५१ ॥ इति दोलापादा ॥ ९॥
*
[ अलाता
अन्यस्य पाष्णिदेशे चेन्नूपुरं चरणं नयेत् । स्वदेहदेशाभिमुखं जान्वग्रत्वेन वेगतः । अग्रे प्रसार्यते दण्डपादचारी तदोदिता ॥ ॥ इति दण्डपादा ॥ १० ॥
*
पृष्ठतो वलितं शीर्ष स्पृष्ट्वा भ्रान्त्वा च सर्पतः । पादः प्रसार्यते यस्यां विशुद्धान्ता तदोदिता ॥ ॥ इति विद्युता ॥ ११ ॥
*
अतिक्रान्तां विधायामुं पादं त्र्यस्रं विवर्तयेत् । त्र्यस्रपादतलभ्रान्त्या भ्राम्यते सकलं वपुः । यत्र तां भ्रमरी चारीमाह चारीविदग्रणीः || ॥ इति भ्रमरी ॥ १२ ॥
*
४९
५२
५३
५४
1 of 'दक्षिणक्षेत्रान्तं स्वपार्श्व निनीय ततोऽपि स्वपार्श्व दोलयेदिति दोलाकारेण नयेत्, ततः स्वपार्श्वे पाय निपातयेत् । अ. गु. on verse ३६. अ. १०. ना. शा. Vol II. (GO.S.) p. 103. cf also सं. र. अ. ७ लो. ९५४.