________________
भुजङ्गवासिता] नु० र० को०-उल्लास २, परीक्षण २
कुञ्चितं पादमन्योरुमूलदेशान्तमुक्षिपेत् । -.. पाणि नितम्बाभिमुखीं जानु कुर्यात् खपार्श्वगम् ॥ कटीजानुर्विवर्तेनोत्तानं पादतलं तथा।। भुजङ्गत्रासगमका भुजङ्गवासिता तु सा ॥
॥ इति भुजङ्गवासिता ॥ १३ ॥ अन्यपार्श्व नयेत्पादं कुञ्चितीकृत्य यत्र च । तालत्रयान्तरोत्क्षिप्तं जङ्घयोः स्वस्तिकं ततः॥ कृत्वा तं पातयेद्भूमौ पाणिभागेन यत्र सा। आक्षिप्ता नाम चारी स्यादिति नृत्यविदो विदुः॥
॥ इत्याक्षिप्ता ॥ १४॥ खस्तिकीकृत्य विश्लिष्टे जोऽति कुञ्चितं ततः। प्रसार्य पातयेत् पाया परपाणिसमीपतः। खपाचे वाथ तां चारीमाविद्धामभणन् बुधाः॥
___॥ इत्याविद्धा ॥ १५॥ पादमाविद्धचारीकमन्योरुस्थितपार्णिकम् । विधायोत्प्लवनं कृत्वा ततो भ्रमरकं चरेत् ॥ तन्निपात्य ततो भूमौ तथान्येन समाचरेत् । अंहिणा यत्र तां चारीमुद्वृत्तां मेनिरे बुधाः॥
॥ इत्युत्ता ॥१६॥
आसां शेषस्तु विज्ञेयः परिभाषापरीक्षणे ॥
॥ इति द्वात्रिंशन्मार्गचारीलक्षणम् ॥ इति भरतमतेन मार्गचारी
पनृपतिर्निरदीधरत् समस्ताः। रदनपरिमिता विलोक्य धीमा
नभिनवभारतिकामुखानितम्बा(?बन्धा)न् ॥ ६३ 25 इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे नृत्य[रत्न कोशे
- चारीकोल्लासे शुद्धचारीपरीक्षणं द्वितीयं [ समाप्तम्] ॥