________________
5
10
15
११४
20
25
नृ० २० को०- उल्लास २, परीक्षण १
[ देशीस्थान कानि । ] मिथः लिष्टकनिष्ठौ च चरणौ कुञ्चितौ यदा । स्वस्तिकौ संहतस्थाने स्वस्तिकं कीर्तितं तदा ॥ ॥ इति स्वस्तिकम् ॥ १ ॥
*
तिर्यञ्चौ चरणौ पाष्णि संगतौ वर्धमानके ॥ ॥ इति वर्धमानम् ॥ २ ॥
*
चरण वर्धमानस्थौ वितस्त्यन्तरितौ यदा । षडङ्गुलान्तरौ यद्वा नन्द्यावर्त तदोदितम् ॥ ॥ इति नन्द्यावर्तम् ॥ ३ ॥
*
अङ्गुष्ठौ च तथा गुल्फौ पादयोवेन्मिथो युतौ । देहे स्वाभाविके तत् स्यात् संहतं स्थानकं वरम् । विनियोगोऽस्य कथितः पुष्पाञ्जलिविसर्जने ॥ ॥ इति संहतम् ॥ ४ ॥
*
देहः स्वाभाविको यत्र वितस्त्यन्तरितौ समौ । पादौ तत् समपादाख्यं समाम्नातं महीभृता ॥ ॥ इति समपादम् ॥ ५ ॥
*
समस्यैकस्य पादस्य जानुमूर्ध्नि यदीतरः । बाह्यपार्श्वेन लग्नोर्बाह्यपार्श्वे तदादिशत् । एकपादं मुनिश्रेष्ठः स्थानकं स्थानवित्तमः ॥ ॥ इत्येकपादम् ॥ ६ ॥
wwwwwwwww
*
भूमिलनाडुलीपृष्ठः पञ्चात्पादस्तथैककः । परापरः समो यत्र पृष्ठोत्तानतलं हि तत् ॥ ॥ इति पृष्ठोत्तानतलम् ॥ ७ ॥
अष्टादशाङ्गुलं यत्र वर्धमानस्थपादयोः । अन्तरं चतुरैः प्रोक्तं चतुरस्रं मनोहरम् ॥ ॥ इति चतुरस्रम् ॥ ८ ॥
*
[ स्वस्तिकम्
५४
५५
५६
५७
५८
५९
६०
६१