________________
5
15
20
११०
[ पुरुषस्थानकानि । ]
एकः पादः समो यत्र खपक्षे त्र्यस्त्रितः परः । सार्द्धद्वितालान्तरितो जड़ा किञ्चिन्नता स्थिता ॥ विष्णुदेवतमेतत् स्याद् वैष्णवं सौष्ठवाञ्चितम् । 10 उत्तमैर्मध्यमैः पुंभिः प्रयोज्यं मुनिसंमतात् ॥ प्रकृतिस्थस्य 'संलापेऽनेककार्यान्तरान्विते । प्रयोज्यं प्रतिशीर्षेण विष्णोश्चेत्यपरेऽभ्यधुः ॥ अपरे नाटयकर्त्रेति सूत्रधारादिना जगुः । पादः पक्षस्थितः सोऽत्र यः पार्श्वाभिमुखाङ्गुलिः ॥ स एव त्रयस्रः किञ्चिचेत् पुरोदेशाभिमुख्यभाक् । अन्तरालं यदत्र स्यात् प्रसृताङ्गुष्ठमध्ययोः ॥ तदेव तालसंज्ञं स्यादिति नृत्यविदो विदुः । उरः समुन्नतं यत्र कूर्परांसशिरः समम् ॥ कटीजानुसमासनं गात्रं तत् सौष्ठवं मतम् । अङ्गं स्वस्थानविश्रान्तं सन्नमित्यभिधीयते ॥ अचलस्थितिसंयुक्तं निषण्णमिति कीर्त्यते । सौष्ठवेऽङ्गमनत्युचमचञ्चलमकुब्जकम् ॥ चलपादं च तत् कार्य नृभिरुत्तममध्यमैः । वैष्णवं स्थानमेतच्च चतुरस्रस्य जीवनम् ॥ पृथक्कटीनाभिचरौ करौ वक्षः समुन्नतम् । वैष्णवं स्थानकं यत्र चतुरस्रं तदुच्यते ॥ ॥ इति वैष्णवं स्थानम् ॥ १ ॥
25
नृ० ८० को०- उल्लास २, परीक्षण १ एवं समासतः पुंसां षट् स्त्रीणां तु सप्त च' । 'देशीयस्थानकानां च त्रयोविंशतिरित्यथ ॥ नवासने च षट् सुप्तौ सर्वाणि मिलितानि तु । 'एकपञ्चाशदाचष्टपञ्चाशत्कोटि भूपतिः । अथ लक्षणमेतेषां वक्ष्ये लक्ष्मविदां मुदे ||
[ पुरुषस्थानकान
*
१३
१४
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
1 ABc give the line एकपञ्चाशदायष्ट ete; but A has marks of delition. 2 B दीशीय० । 3 ABC सोष्ठवाच्छितम् । but भ. को. सौष्ठवाञ्चितम् पृ. ६४६. 4 ABO संलेपनेक of संलापे नानाकार्यान्तरान्विते सं. र. अ. ७ श्लो. १०३३.