________________
नृ० २० को०- उल्लास २, परीक्षण १
एकतालान्तरौ पादौ समावङ्गे च सौष्ठवम् । समपादं च तद् ज्ञेयं चतुराननदैवतम् ॥ एतचोर्ध्वनिरीक्षायां स्वीकारे णा (? चा) शिषां तथा । लिगि (१ ङ्गि)व्रतिविमानस्थस्यन्दनस्येषु युज्यते । मध्यमानां विहङ्गानां कन्यावर कुतूहले ॥ ॥ इति समपादम् ॥ २ ॥
*
समपादम् ]
नभस्यूरू निषण्णौ चेत् सार्घतालत्रयान्तरे । भूमेरूर्ध्व चरणयोस्तावदेवान्तरं भुवि ॥ त्र्यम्रपक्षस्थयोर्यत्र वैशाखं स्थानकं तु तत् । वैशाखदेवतं स्थूलपक्षिणां वीक्षणे मतम् । अश्वानां वाहने वेगदाने प्रेरणकर्मणि ॥ ॥ इति वैशाखम् ॥ ३ ॥
*
एकतालान्तरौ यत्रौ पादौ पक्षस्थितौ भुवि । कटीजानु समावूरू सार्धतालद्वयान्तरे ॥ निषण्णौ गगने तत् स्यान्मण्डलं शक्रदैवतम् । चतुस्तालान्तरौ केचिन्मण्डले चरणं ( १ णौ ) जगुः ॥ वीक्षणे गरुडादीनां नियोज्यं गरुडवाहने । धनुर्वज्रादिशस्त्राणां मोक्षणे च मुनेर्मतात् ॥
॥ इति मण्डलम् ॥ ४ ॥
व्योम्नि वामो निषण्णोरुः पूर्वमानेन दक्षिणः । अग्रे प्रसारितः पञ्चतालं' त्र्यस्रं च तद्द्वयम् ॥ आलीढं स्थानकं तत्तु विज्ञेयं रुद्रदैवतम् । ईर्ष्याक्रोधकृतो जल्प: 'कार्यस्तेनोत्तरोत्तरः । वीररौद्रकृतं मल्लसंघर्षास्फोटमादिकम् । अस्मिन् संधाय शस्त्राणि प्रत्यालीढं समाश्रयेत ॥
॥ इत्यालीढम् ॥ ५ ॥
*
१११
२५
२६
२७
२८
२९
३०
३१
३२
३३
5
1 ABO° तालां cf पञ्चतालं प्रसारितः । सं. र. अ. ७ श्लोक १०४९. 2 ABO कार्यों नेतो० cf. कार्यस्तेनोत्तरोत्तरः । सं. र. अ. ७ श्लो. १०५०,
10
15
20
38 25