________________
द्वितीयोल्लासे प्रथमं परीक्षणम् । ..
[मङ्गलम् ।] एकं निधाय सममस्य च'जानुशीर्षे पादं परं रचितकुश्चितमुद्धृतं च। वन्दे शिवं सवरदाभयदानहस्तं 'नेत्रामृतैः सतत साध(? स्थान)
कमाप्तवन्तम् ॥ १
[स्थानकानि।] अथ स्थानानि वक्ष्यामो मार्गदेशीविभेदतः। चारी चरणमाख्यातं स्थित्वा तद्यवतिष्ठते ॥ यतश्चार्यादिकं सर्व स्थाने स्थाने 'कृतं भवेत् । अतः स्थानं प्रधानत्वात् सर्वस्यादौ प्रपश्यते ॥ वैष्णवं समपादं च वैशाखं मण्डलं भवेत् । आलीढप्रत्यालीढे च स्थानषदं नृणामिति ॥ आयातं चावहित्थं च तथाश्वक्रान्तमित्यपि । गतागतं च वलितं मोटितं विनिवर्तितम् ॥ इत्याचार्यमते ख्यातं स्त्रीणां स्थानकसप्तकम्। . खस्तिकं वर्धमानाख्यं 'नन्द्यावतं च संहतम् ॥ समपादं चैकपादं पृष्ठोत्तानतलं तथा। चतुरस्रं पाणिविद्धं पार्णिपार्श्वगतं तथा । एकपार्श्वगतं तस्मादेकजानुनतं ततः। परावृत्तं समसुचि तथा विषमसूच्यपि ॥ खण्डसूचि ततो ब्राह्मं वैष्णवं शैवगारुडे । कूमोसनं नागवन्धं वृषभासनमित्यपि ॥ इति.देशीस्थानकानां विंशतिख्यधिका स्मृता। वस्थं मदालसं क्रान्तं स्या द्विष्कम्भितमुत्कटम् ॥ स्रस्तालसं जानुगतं मुक्तजानुविमुक्तकम् । उपविष्टस्थानकानां नवकं भारते मते ॥ सममाकुश्चितं स्थानं प्रसारितविवर्तिते । उद्वाहित नतं चेति सुप्तस्थानानि षण्नृणाम् ॥ 10 drops च at both the places | 2 AB तत्रा। 3 0 ततयाधिक । 4 AB वक्ष्यामार्ग। 5 AB कृतेभवत् । 6 B सप्तमम् । 7 B नाद्य । 8 AB विष्कुंभित । 9 AB लग्नं । 0 °लकं । but compare its description v. 82
०
०.
M