________________
5
10
15
20
25
१०४
नृ० २० को०- उल्लास १, परीक्षण ४
[ सजीवम् । ]
स चेष्टितः स्यात् सजीवो रहे प्राणिप्रवेशनम् । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ प्राणिसंज्ञाः कृता ह्येते जीवबन्धास्तथापरे । शैलप्रासादयश्राणि चर्मवर्मध्वजास्तथा ॥ नानाप्रहरणाद्याश्च ते प्राणिन इति स्मृताः । अथवा कारणोपेता भवन्त्येते शरीरिणः । वेषभावाश्रयोपेता नाव्यधर्मीमुपाश्रिताः । वर्णानां तु विधिं ज्ञात्वा वयःप्रकृतिमेव च ॥ कुर्यादङ्गस्य रचनां देशजातिवयः श्रिताम् । द्विपाद: 'पादरहिताः चतुष्पाद इति त्रिधा ॥ प्राणिनः प्रथमे तत्र देवमानुषपक्षिणः पादहीनास्तु भुजगाश्चतुष्पादा गवादयः ॥ एवमाहार्यविधयो गवेष्या भरतादिह ।
अप्रस्तुतत्वात्ते नेह विस्तरेण प्रपश्चिताः ॥ भूषाप्रसङ्गतः किञ्चिन्नेपथ्यमिह दर्शितम् ।
*
[ मुखरागः । ] अभिनेयार्थसंपत्तिः करणैरवधार्यते ॥ साधना मुखरागस्य तत् स आदौ निरूप्यते । यतो वदनरागोऽयं चित्तवृतिं रसात्मिकाम् ॥ प्रकटीकुरुते तस्मादर्थसिद्धिस्तदाश्रिता । मुखरागमृतेऽङ्गानि नालमर्थप्रकाशने ॥ अतस्तेनैव शोभन्ते तानि खं शशिना यथा । रसानुशायिनी संपत् पदार्थानां प्रकाशते ॥ तामात्मस्थां व्यनक्त्यत्र मुखरागो रसे रसे । स चतुर्धा स्मृतो राज्ञा पूर्वः' स्वाभाविकस्तथा ॥
[ सजीवम्
. १५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
1 Chaukhamba and Nirnaya Sagar editions of N. S. have the reading af: as above (A, 23.) v. 8. (c. s. s.) A. 21. v. 8 (N. s. ). but the c. o. s. has the reading वेष्टिम: - ( P. 110). This is a more intelligible reading. Abhinavagupta explains it as जतुसिक्थादिना वेष्टस्तेन निर्वृत्तो वेष्टिमः । P. 110. 2 Bc drop पादरहिता चतुः । 3 ABC पादौ । 4 ABC पूर्वस्वा ।