SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ नेपथ्यम् ] नृ० २० को०-उल्लास १, परीक्षण ४ [ नेपथ्यम् । ] चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च । तथाङ्गरचना चैव ज्ञेयः सजीवमेव च ॥ पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमचैव चेष्टितश्च प्रकीर्तितः ॥ * [ अलङ्कारः । ] कायस्थालङ्कृतिर्येन सोऽलङ्कारः स च द्विधा । माल्यमाभरणं चेति तत्र माल्यमनावृतम् ॥ चतुर्विधं तु विज्ञेयं देहस्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षिप्यमारोप्यकं तथा ॥ आवेध्यं कुण्डलादीह यत् स्यात् श्रवणभूषणम् । श्रोणिसूत्राङ्गदैर्मुक्ताबन्धनीयानि निर्दिशेत् ॥ प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च । आरोग्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥ * [ अङ्गरचना । ] सितरक्तश्यामपीता वर्णास्तैरङ्गसंस्कृतिः । वर्णानां संकरोद्भूता शस्ताङ्गरचना मता । बहुभिर्वर्णिता वर्णैः स्यादङ्गरचना नवा ॥ [ पुस्तः । ] पुस्तः स उच्यते नाट्ये यद्विमानादि दृश्यते । ॥ वस्त्रकर्म ॥ १०३ * ७६ ९ 10 १० ११ १२ केलिजै (? किलिजै) चर्मवस्त्राद्यैः संधानात् संघिमो मतः ॥ १३ व्याजैः सूत्राकर्षणाथै रचितो व्याजिमो मतः । मधूच्छिष्टान्नजत्वादियोगैर्यश्रेष्ट्यते नटैः ॥ १४ 1 ABC ° देमुक्ता of श्रोणिसूत्राङ्गदैर्मुक्ता । ना. शा. अ. २३. लो. १३ (०.ss. 15 20
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy