________________
१०२
नृ०र० को०-उल्लास १, परीक्षण ४ [उत्मितादयः ____ नवोढा लज्जिते तूर्ध्वक्षेपादुत्क्षिप्तिका मुहुः।
॥ इत्युत्क्षिप्ता ॥२॥ शीतमूर्खाग्रहत्रासैः कुञ्चिता कुश्चनात् स्मृता ॥
॥ इति कुञ्चिता ॥३॥ ऋजुः प्रसारिताः स्तब्धाः खापे स्तम्भेऽङ्गमोहने ।
॥ इति प्रसारिता ॥४॥ अङ्गुष्ठस्याप्यमी भेदाश्चत्वारः परिकीर्तिताः। मिथोलग्नाश्च संलग्ना साङ्गुष्ठाः कर्षणे स्मृताः॥
॥ इति संलग्नाः॥५॥ 10 उद्धृतं पतिताग्रं चोद्धृताग्रं भूमिलग्नकम् ।. . कुञ्चन्मध्यं तिरश्चीनं षोढा पादतलं स्मृतम् ॥ १५९
॥ इति पार्णिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि ॥ उपाङ्गसेवकाः सिंहासनसछत्रचामरैः।
भिद्यन्ते यस्य तेनात्रोपाङ्गसंघः प्रदर्शितः ॥१॥ . 15 इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते सङ्गीतराजे षोडशसाहरुयां सङ्गीत
मीमांसायां नृत्यरत्नकोशे अङ्गोल्लासे उपाङ्गपरीक्षणं तृतीयं समाप्तम् ॥ ३ ॥
प्रथमोल्लासे चतुर्थं परीक्षणम् यस्मिन्नविद्ययाहार्य विश्वं भाति सनातने । तमनाहार्यकार्येशमार्येशं शङ्करं नुमः॥
[आहार्याभिनयः।] अथ निर्धार्यते सम्यगाहार्याभिनयो मया। यतः प्रयोगः सर्वोऽयमाहार्याभिनये स्थितः॥ यतः प्रकृतयः पूर्व नानानेपथ्यसाधिताः। अन्ते (? अतो) ऽङ्गायैरभिव्यक्तिमभिगच्छन्त्ययत्नतः॥ ३ नेपथ्यजो विधिः सर्व आहार्याभिनयाभिधः। कार्यः प्रयत्नस्तत्रैव प्रयोगे शुभमिच्छता ॥ नेपथ्यशब्दवाच्यस्तु नाव्यालङ्कार इष्यते। स एवाहार्यशब्देन नाटके व्यपदिश्यते ॥