________________
हस्तप्रचाराः करणानि च] नृ० र० को-उल्लास १, परीक्षण ४
प्रसन्नश्च तथा रक्तः श्यामश्चैव चतुर्थकः। खाभाविको यथार्थस्तु भावेनाविष्ट इष्यते ॥
॥ इति स्वाभाविकः ॥ १॥ शृङ्गाराद्भुतहास्येषु प्रसन्नो निर्मलो मतः ।
॥ इति प्रसन्नः ॥२॥ रक्तं स्यादरुणो रौद्रे करुणेऽद्भुतवीर्ययोः।
॥ इति रक्तः॥३॥ श्यामो यथार्थो विज्ञेयो बीभत्से च भयानके ।
॥ इति श्यामः ॥४॥ ॥ इति चतुर्धानु (? मुख) रागः॥
२८
[हस्तप्रचाराः । हस्तमचरणाधीनं सर्वं नृत्यं यतस्ततः। अतो नानामतैक्येन तानहं वच्मि तत्त्वतः॥ उत्तानश्च ततः पार्श्वगोऽग्रगोऽधस्तलस्तथा। खसंमुखतलश्चोर्ध्वमुखोऽधोवदनस्तथा ॥ पराअखः पार्श्वतलः संमुखश्चाग्रतस्तलः। ऊर्ध्वगोधोगतः पार्श्वगतोऽन्यः पार्श्वतो मुखः॥ एते पश्चदशैवात्र प्रचाराः करसंश्रयाः। नाग्नैव व्यक्तलक्ष्माणो न ततो लक्षिताः पृथक् ॥
॥ इति पञ्चदश हस्तप्रचाराः॥
[करणानि ।] निरपेक्षो यथा सर्वोऽभिनयः सर्वमृच्छति । क्रियाविशेषो हस्तस्य सर्वसाधारणस्तथा ॥ क्रियते नृत्यविद्भिर्यस्तद्धस्तकरणं मतम् । आवेष्टितोद्वेष्टिते च व्यावर्तितमतः परम् ॥ परिवर्तितमित्येतचतुर्धा परिकीर्तितम् ।
तर्जन्याद्यङ्गुलीनां यत्तलसंमुखतः क्रमात् ॥ आवेष्टितं स्यादागच्छेदावक्षः पार्श्वतः करः। १४ नृ०रत्न.