________________
5
10
15
20
१००
नृ० १० को०- उल्लास १, परीक्षण ३
अधस्तावलं खस्तं श्वसितं वीक्षितेऽद्भुते । ॥ इति श्वसितम् ॥ २ ॥
*
तिर्यग्गतं तु वक्रं स्याद्ब्रहावेशे नियुज्यते ॥ ॥ इति वक्रम् ॥ ३ ॥
*
संहतं मीलितमुखं निश्चलं मौनकर्मणि ॥ ४ ॥ ॥ इति संहतम् ॥ ४ ॥
*
लग्नौष्ठं चञ्चलं नारीवल्गने चलसंहतम् ॥ ५ ॥ ॥ इति चलसंहतम् ॥ ५ ॥
*
स्फुरितं कम्पितं प्रोक्तं शीते ( ? भीते ) शीतज्वरे बुधैः । ॥ इति स्फुरितम् ॥ ६ ॥
*
चलितं श्लेषविश्लेषि क्षोभे वाकस्तम्भकोपयोः ।
॥ इति चलितम् ॥ ७ ॥
*
तिर्यग्गतागतं लोलं रोमन्थावर्तनादिषु ॥
॥ इति लोलम् ॥ ८ ॥ ॥ इत्यष्टधा चिबुकम् ॥
*
[ वदनम् । ] व्याभुग्रं भुग्रमुद्वाहि विधृतं विकृतं तथा । विनिवृत्तमिति प्राहुर्वदनं षड्विधं बुधाः ॥
*
व्याभुग्रं किञ्चिदायामि मुखं चिन्तादिके स्मृतम् । निर्वेदौत्सुक्ययोश्वापि,
॥ इति व्याभुग्नम् ॥ १ ॥
*
भुग्रं वक्त्रमधोमुखम् ।
यतेः स्वभावाल्लज्जायाम्,
॥ इति भुग्नम् ॥ २ ॥
*
[ वदनानि
1 सं. र. अ. ७ श्लो. ५११. has भीते शीतज्वरे तथा ।
१४१
१४२
१४३
१४४
१४५
१९४६