________________
नृ० र० को उल्लास १, परीक्षण ३ [दन्तकर्माणि रेचितस्तु विकारोऽपि(रेऽपि) पर्यन्तवलनाद्भवेत् ॥ . . १२७
॥ इति रेचितः॥१०॥ ॥ इति दशधाधरः॥
[दन्तकर्माणि ।] दन्तलक्षणसिद्धयर्थ दन्तकर्माण्यथो ब्रुवे। कुट्टनं खण्डनं छिन्नं चुकितं ग्रहणं समम् ॥ दष्टं निकर्षणं चेति दन्तकर्माष्टया स्मृतम् ।
कुट्टनं घर्षणं प्रोक्तं शीतरुग्भी जरासु तत् ॥
॥ इति कुट्टनम् ॥ १॥ ..
१३१
15
दन्तानां श्लेषविश्लेषौ मुहुः खण्डनमीरितम्। जपलक्षणसंलापाध्ययनेषु प्रकीर्तितम् ॥
॥ इति खण्डनम् ॥२॥ संश्लेषः स्याद् दृढश्छिन्नं शीतभीरोदना'दिषु । व्याधी च वीटिकाच्छेदे व्यायामादिषु चेप्सितम् ॥
॥ इति छिन्नम् ॥ ३॥ , चुक्तिं जृम्भणे दन्तपङ्क्त्यो र्दूरस्थितेर्भवेत् ।
॥ इति चुक्कितम् ॥ ४॥ ग्रहणं धारणं दन्तैरङ्गुल्यादेः प्रकीर्तितम् ॥
॥ इति ग्रहणम् ॥५॥ दन्तानां किंचिदाश्लेषः स्वभावाभिनये समम् ।
॥ इति समम् ॥६॥
१३२
दन्तैर्दष्टं भवेत् क्रोधे त्वरे दशनं तु यत् ॥
॥ इति दष्टम् ॥ ७॥
१३३
_1 AB0 रोदरा। of रोदने भीतिशीतयोः सं. र. अ.७ श्लो. ४९९ । 2 and 4 ABO चुम्बितं । of verse 136. 3 AB0 प.ई. of दन्तपक्त्योः स्थितिर्दूरे चुक्तिं जृम्भणादिषु । सं. र. अ. ७ श्लो. ५०० । 5 ABO त्वधरे।