________________
विवर्तितादयः ]
नृ० २० को०-उल्लास १, परीक्षण ३
[ अधरः । ]
विवर्तितः कम्पितच विसृष्टो विनिगूहितः । संदष्टकः समुद्गचे (? वो ) वृत्तायतविकाशिताः ॥ रेचितचेति दशधा बुधैरोध (१४) उदीरितः ।
*
तिर्यक संकुचितश्रोष्ठपुटः प्रोक्तो विवर्तितः ॥ नियुक्तो वेदनासूयावज्ञाहास्यादिषु स्फुटम् । ॥ इति विवर्तितः ॥ १ ॥
कम्पितः कम्पनाद्भीरुव्यथाशीतजपादिषु ॥ ॥ इति कम्पितः ॥ २॥
*
विनिष्क्रान्तो विसृष्टः स्यादलक्ताद्येन रञ्जने । विलासे चैव बिब्बोके स्त्रीणां नृणां च हेलने ॥ ॥ इति विसृष्टः ॥ ३ ॥
*
प्राणो मुखान्तर्निहितः साध्येषु विनिगूहितः । रोषेर्ण्ययोर्वरूणां बलाचुम्बति वल्लभे ॥ ॥ इति विनिगूहितः ॥ ४ ॥
*
दन्तैर्दष्टोऽधरः क्रोधे संदष्टो विनियुज्यते ॥ ॥ इति संदष्टः ॥ ५ ॥
*
समुद्गः कथ्यते चोष्ठसंपुटो दधदुन्नतिम् । फूत्कारे चानुकम्पायां चुम्बने चाभिनन्दने ॥ ॥ इति समुद्रः ॥ ६ ॥
*
मुखोत्क्षिप्ततयोद्वृत्तः सोऽवज्ञापरिहासयोः ।
॥ इत्युद्वृत्तः ॥ ७ ॥
*
उत्तरोष्ठेन साकं स ततः 'स्यादायतः स्मिते । ॥ इत्यायतः ॥ ८ ॥
*
किञ्चिदत्तो (? दृष्टो ) र्ध्वरदनो विकाशी कथ्यते स्मिते ।
॥ इति विकाशी ॥ ९॥
*
1 ABO स्याद्यतः ।
१३ नृ० रन०
९७
११९
१२० 5
१२१
१२२
१२३
१२४
१२५
१२६
10
15
20
25