________________
९२
10
र को-उल्लास १, परीक्षण ३ [निष्कामो दर्शनानि च
... निर्गमस्त्वन्तरा तु यः। .. स निष्क्रामस्तु वीरेऽप्यदुते रौद्रे भयानके ॥
॥इति निष्कामः॥९॥ ॥ इति नव स्वनिष्ठानि ताराकर्माणि ॥ __ [दर्शनानि ।] ताराकाष्टकमयो विषयाभिमुखं हुवे। रसभावे तु तत् ख्यातं साधारणतया बुधैः॥ समं साच्यनुवृत्तावलोकितानि विलोकितम् । उल्लोकितालोकिते च प्रविलोकितमित्यपि ॥ कर्माण्येतानि कथ्यन्ते दर्शनानि मनीषिभिः। दर्शनं सममत्रोक्तं सौम्यमध्यकनीनिकम् ॥
॥ इति समम् ॥१॥ पक्ष्मान्तीनतारं च साचि तिर्यग्विलोकितम् ॥
॥ इति साचि ॥२॥ अनुवृत्तं दर्शनं स्याद्रूपनिर्वर्णनायुतम् । अन्तःस्थिरतरा कायाद् दिक्षया' क्रिया तु या ॥ ८९ निवर्णना तु सा ज्ञेया,
॥ इत्यनुवृत्तम् ॥ ३॥
चावलोकितमुच्यते। अधस्स्थदर्शनं तत् स्यात्,
॥ इत्यवलोकितम् ॥४॥
विलोकितमितो मतम् ॥ पृष्ठतो दर्शनं यत्तत्,
॥ इति विलोकितम् ॥५॥
उल्लोकितमिहोदितम् । ऊर्ध्वस्थवस्तुनो यत् स्यादवेक्षणमथो पुनः॥
॥ इत्युल्लोकितम् ॥ ६ ॥
1 ABO°क्षाद्ध।