________________
[कुञ्चितौ
६९
नृ०२० को०-उल्लास १, परीक्षण ३ आकुचितावहृये स्तो रूपादौ कुञ्चितौ पुटौ ॥
॥ इति कुश्चितौ ॥२॥ प्रस्तावायतौ प्रोक्ती हर्षे वीरे च विस्मये ॥
॥ इति प्रसृतौ ॥३॥ स्फुरितो स्पन्दितौ प्रोक्तावीर्षायां विनियोजितौ ॥
॥ इति स्फुरितौ ॥ ४॥ विवर्तितौ समुद्वृत्तौ क्रोधे योज्यौ विपश्चिता ॥
॥ इति विवर्तितौ ॥५॥ निमेषितौ तु पुटयोः संश्लेषात् क्रोधगोचरौ ॥
॥ इति निमेषितौ ॥६॥
उन्मेषितौ च विश्लेषानियोगं पूर्वमाश्रितौ ॥
॥ इत्युन्मेषितौ ॥७॥
पिहितावतिसंलग्न'पुटौ स्यातां दृशोरुजे । सुप्तमूछितवर्षोष्णधूमवाताञ्जनार्तिषु॥
॥ इति पिहितौ ॥८॥ पुटौं विताडितौ ज्ञेयावुत्तरेणाधराहतेः। अतिविस्फारणात् स्यातामह श्यौ वा विताडितौ ॥ ७६
॥ इति विताडितौ ॥९॥ ॥ इति नवधा पुटौ॥
[ताराकर्माणि ।] तारकाणां विभेदा ये ते कर्मोपाधिका मताः। कर्माण्यपि द्विधा खस्य विषयस्याभिमुख्यतः॥ नव तत्र खनिष्ठानि प्राकृतं च प्रवेशनम् । वलनं भ्रमणं पातश्चलनं च विवर्तनम् ॥
1 AB0 °स्फुटौ। 2 ABO दृशौ । 3 हर्षों in भ. को. पृ. ३७० । 4 80 स्फुटौ। 5 ABo through out वितालितौ instead of विताडिती। 6 ABO स्यातांमट्ट।
७८