________________
[विमान्या
10
मु० ० को०-उल्लास १, परीक्षण ३ विभ्रान्ता कचिवश्रान्तमविश्रन्धविलोकिनी। चञ्चलोत्फुल्लतारा च विस्तीर्णा दृष्टिरुच्यते । नियुक्ता विभ्रमे वेगे संभ्रमे च मनीषिभिः ॥
॥ इति विभ्रान्ता ॥ १७ ॥ पततः क्रमतो यस्याः स्तब्धविस्फुरिती पुटौ। विप्लुता चापले दुःखे तून्मादादौ च कोविदैः॥
॥ इति विप्लुता ॥१८॥ त्रासोद्धमत्पुटा त्रस्ता सोत्कम्पोत्फुल्लतारका ॥
॥ इति त्रस्ता ॥ १९ ॥ त्रिविधा मदिरा दृष्टिर्मद्य(? द)त्रैविध्यतः स्मृता। अधमे पुंसि संस्थस्तु मदस्तीवोऽधमो मतः॥ अधः सञ्चारिणी तत्र किञ्चिद्दष्टकनीनिका । यत्नेऽप्यसिध्यदुन्मेषान्निमेषाद याधमे मदे ॥ . मध्ये किञ्चिद्धमत्तारा किश्चित्कुश्चत्पुटद्वये । अनवस्थितसञ्चारा मदिरा मध्यमे मदे ॥ तरुणे क्षामनयना तथापाङ्गविकाशिनी। __ आघूर्णमानतारा तु मदिरा दृष्टिरिष्यते॥
॥ इति त्रिविधा मदिरा ॥२०॥ इत्युक्ता दृष्टयो लोकदृष्टिमार्गमुपाश्रिताः। षत्रिंशत् सन्त्यनन्तास्तास्ताराभूपुटकर्मणाम् ॥
संदर्भाद् ब्रह्मणाप्येताः प्रत्येकं वक्तुमक्षमाः। . तत्प्रयोगप्रपञ्चा) भ्वादिकानधुना ब्रुवे ॥
॥ इति दृष्टिप्रकरणम् ॥
क. सहजा पतितोत्क्षिप्ता रेचिता कुश्चिता तथा ।
भृकुटी चतुरा चेति सप्तधा भ्रूः स्मृता बुधैः। खभावात् सहजा ज्ञेया भावेषु सरलेष्वसौ ॥
॥ इति सहजा ॥१॥