________________
कुश्चिता] नृ०र० को०-उल्लास १, परीक्षण ३
ईषत्कुश्चितपक्ष्माग्रभूपुटा वक्रतारका । तिर्यग् निविष्टा दृष्टिः स्यात् कुञ्चितासूयितेऽपि सा। अनिष्टेऽर्थे घ्यथायां च दुरालोके महस्यपि ॥
॥ इति कुश्चिता ॥ १०॥ अधःसञ्चारिणी तारोत्फुल्लोद्धान्तपुटापि च । .. वितर्किता वितर्के सा विनियुक्ता मनीषिभिः ॥
॥ इति वितर्किता ॥ ११॥ विलोकेतेऽलसं भ्रान्ते संतप्ते इव तारके। व्यथाचलत्पुटोपेते यस्यां सोक्ताभितप्तिका । उपतापेऽभिघाते च निदेऽपि नियुज्यते ॥
॥ इत्यभितप्ता ॥ १२॥ स्तब्धतारानिमेषाचा विस्तारितपुटद्वया। विषण्णा पतितापाङ्गा विषादे विनियुज्यते ॥
॥ इति विषण्णा ॥ १३ ॥ 'सचूलेपस्मितापाङ्गे कुञ्चिता मधुरोन्मुखी। ललिता ललिते प्रोक्ता दृष्टिर्मन्मथमन्थरा ॥
॥ इति ललिता ॥ १४॥ ईषद्क्रपुटापागा तिर्यगर्घनिमेषिणी । नेत्रान्तरावन्यपथालोका व्यस्तविवर्तिनी ॥ दृष्टिराकेकरा दूरालोके विच्छेदकर्मणि। सापराधे प्रिये लेहविच्छेदेन यदीक्षणम् । तद्विच्छेदप्रेक्षितं स्याद् दूरालोकेऽपि सा स्मृता ॥
॥ इत्याकेकरा॥१५॥ विकाशिन्यनिमेषा च विकाशितपुटद्वया। इतस्ततो भ्रान्ततारा विशोका दृष्टिरिष्यते। ज्ञाने क्रोधे च विज्ञाने गर्व उग्रावलोकने ॥
. ॥ इति विशोका ॥ १६ ॥
1 ABO स्व° of सभ्रूक्षेपस्मितान्विता सं. र. अ.७ श्लो. ४१९ ।