________________
नृ० र० को०-उल्लास १, परीक्षण ३ [इत्यर्धकुञ्चितम् . स्तनदेशागतं जानून्नतं शैलाधिरोहणम् ।
॥ इत्युनतम् ॥ ४॥ जान्वर्धकुञ्चितं ज्ञेयं नितम्बनमनादुधैः॥
८७ ॥ इत्यर्धकुञ्चितम् ॥५॥ हीरोषेर्ध्यासु जानूक्तं श्लिष्टान्यजानु संहतम् ।
॥ इति संहतम् ॥६॥ कुञ्चितं जानु लग्नोरुजङ्घमासनकर्मणि ॥ ......८८
॥ इति कुञ्चितम् ॥ ७॥
॥ इति सप्तविघं जानु॥ प्रत्यङ्गमालिङ्गति यं सदैव साम्राज्यलक्ष्मीरनुमोदिकेव। तेनामुना राजवरेण राज्ञा प्रत्यङ्गसंघः सुधियाभ्यधायि ॥ ८९ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहत्यां सङ्गीतमीमांसायां नृत्यरत्नकोशे अङ्गोल्लासे प्रत्यङ्गपरीक्षणं द्वितीयं समाप्तम् । .
10
प्रथमोल्लासे तृतीयं परीक्षणम् 16 उपा(?))यस्य शोभते चन्द्रगङ्गे सदोज्वले । सदोजवलेन महसा भ्राजमानं नुमः शिवम् ॥ .
[उपाङ्गानि ।] दृष्ट(?ष्टि)पुटताराश्च कपोलौ नासिकानिलः । अधरो दशना जिह्वा चिबुकं वदनं तथा ॥ उपाङ्गानि द्वादशेति शिरस्यङ्गान्तरेषु च । पाणीगुल्फो तथाङ्गुल्यः करयोः पादयोस्तले ॥ मुखरागश्च करयोः प्रचाराः करणानि च । कर्माणि पाणिक्षेत्राणि तेषां लक्षणमुच्यते ॥ .
[अथ दृष्टिप्रकरणम् ।] 25. दृष्टयस्त्रिविधास्तत्र स्थायिजा रसजास्तथा ।
व्यभिचारिभवाश्चेति तासां लक्षणमुच्यते ॥ 1 Bo drop समाप्तं । 2 ABO शोभाते।