________________
मणिकधः] नृ० र० को०-उल्लास १, परीक्षण २
[मणिबन्धः।] पश्चधा मणिबन्धः स्यात् सम आकुश्चितश्चलः। निश्चितच भ्रमित ऋजुः सम इतीरितः। प्रतिग्रहे पुस्तकस्य धारणे परिकीर्तितः॥
॥ इति समः॥१॥ आकुश्चितोऽन्तर्निम्नः स्यात् प्रोक्तोऽपसरणे बुधैः।
॥ इत्याकुञ्चितः ॥२॥ निकुञ्चाञ्चिताभ्यासाचल आवाहने स्मृतः॥
॥ इति चलः ॥ ३॥ बहिर्जीतो निकुञ्चः स्यात् स दानाभयदानयोः।
॥ इति निकुश्वः ॥४॥
भ्रमणामितः खड्गछुरिकाभ्रमणादिषु ॥
॥ इति भ्रमितः ॥५॥ ॥ इति पञ्चधा मणिबन्धः॥
[अथ करभौ।। करभौ मलिनो खच्छावरुणो कुञ्चितावृजू। इत्थमन्वर्थनामानौ कथितौ पञ्चधा बुधैः॥ "
॥ इति करभौ ॥
[ जानु ।] समं नतं च विवृतमुन्नतं चार्धकुश्चितम् । संहतं कुश्चितं चेति जानु सप्तविधं स्मृतम् । प्रकृतिस्थं समं जानु स्वभावावस्थितौ मतम् ॥
॥ इति समम् ॥१॥ नतं महीगतं ज्ञेयं जानु वा(?पाते नमस्कृतौ ।
॥ इति नतम् ॥ २॥ जानुद्वन्द्वं पहियांतं विवृतं रा(ग)जरोहणे ॥
॥इति विवृतम् ॥ ३॥
20
*
११ नृरन.