________________
68]
KAVYAPRAKASA-SAMKETA
सोमेश्वर
पृ.
1
२८३-८४ (26) 'रसनाविपर्ययो गजानां शापहेतुतोऽसत्यभाषित्वमपि । चापलमश्रोतव्यश्रवणमपि मदो गर्वोऽपि । शून्यकरत्वमदातृत्वमपि ।' अत्र वाच्येऽर्थे रसनाविपर्ययशून्यकरत्वयोरसेवने हेतुत्वं न संभवतीति अध्यारोपोऽवसेयः । कर्णचापलं तु असेवने हेतुः । मदश्व सेवने प्रतीयमानश्च कुस्वामिसेवकः । एवं च अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वेऽप्रस्तुतप्रशंसा । लिप्रविशेषणैः प्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे तु समासोक्तिः । प्रस्तुता प्रस्तुतयोरपि वाच्यत्वे विशेष्यस्यापि लिष्टत्वेऽर्थश्लेषः । एषान्योक्तिरिति अन्ये ।
२८४ (27) बहिरविद्यमानस्यार्थस्य संभावनामात्रेण उपनिबन्धे संबन्धेऽप्यसंबन्धो असंबन्धेऽपि संबन्ध इत्यर्थः । संबन्धेऽप्यसंबन्धः, यथा- 'राकायाम्' इति । अत्र पार्वणशशाङ्कस्य निष्कलङ्कत्वं बहिरसंभवदपि कविप्रजापतिना स्वप्रतिमानात् संभवद्रपतया उक्तम् । इत्थं च प्रकृतस्य मुखस्य उपमानाभावो, नास्त्यन्यत् किंचिदस्योपमानमिति । अत एव संभाव्यमानार्थनिराचिकीर्षया शङ्कायोतकश्चेच्छब्दः । आशङ्का हानिश्चितस्वभावे वस्तुनि स्यात् ॥ इयमुत्पाद्योपमेति रुद्रटः, अद्भुतोपमेति दण्डिप्रभृतयः । असंबन्धेऽपि संबन्धः, यथा - पुष्पं प्रवालोपहितं यदि स्यान्मुकाफल वा स्फुटविद्रुमथम् ।
[ उ. १०
माणिक्यचन्द्र
पृ.
३७७-७८ ( 26 ) सोऽपूर्व इति । रसनाविपर्ययो गजानां शापजोऽलीकजोऽपि । चापलं खलवचश्श्रवणे साम्मुख्यमपि । शून्यकरत्वमातृत्वमपि । हेतुरिति । तेन वाच्ये ऽर्थे प्रतीयमानस्य कस्यापि कुस्वामिसेवकस्याध्यारोपः कार्यः । चापलमसेवने मदश्च सेवने हेतुः । प्रस्तुता प्रस्तुतयोः वाच्यत्वे विशेष्यस्यापि लित्वे अर्थश्लेषः । विशेषणानां स्वे प्रस्तुतस्य वाच्यत्वे अन्यस्य तु गम्यत्वे समासोक्तिः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वेऽप्रस्तुतप्रशंसेति विवेकः ।
३७९-८० ( 27 ) राकेन्दोर्निर्लक्ष्मत्वस्य बहिरसम्भवेऽपि कविना सम्भवद्रूपतयोक्तावास्यं निरुपममित्यर्थः । एषोत्पाद्योपमेति रुद्रटः । अद्भुतोपमेति दण्डिमुख्याः । अयं सम्बन्धेऽप्यसम्बन्धरूपस्तृतीयः । कचिदसम्बन्धे सम्बन्धो यथा
"पुष्पं प्रवालोपहितम्" इति अत्रासम्बन्धे सम्भावनया स
म्बन्धः ।