________________
INTRODUCTION : APPENDIX A
[67.
सोमेश्वर
माणिकेचन्द्र
वक्तुमनिष्टत्वात् किन्तु वस्तुध्वनिरेव । यथा-"यान्ति न्यायप्रवृत्तस्य इति" अत्र प्रकृतत्वेनार्थो न्यायनिष्टपुंवृत्तिः, सूचाभिप्रायेण तु रामादिवृत्तिः।
२७६-७७ (23) भावः । यत्र तु वक्ष्यमा
णोपक्षेप्यर्थनिष्ठमुपक्षेपपराभिधासंसू चकत्वं यथा-यान्ति न्यायप्रवृत्तस्य तिर्यश्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति॥इत्यादौ, तत्र न श्लेषोऽर्थद्वयस्य प्रकृतत्वेनाभिधेयतया वक्तुमनिष्टत्वात् , किं तु अर्थशक्तिमूलो वस्तुध्वनिरेव । तथा हि प्रकृते न्यायवतः पुंसस्तियश्चोऽपि सहायाः, सूचनीयार्थविषयत्वेन तु राम-सुग्रीवादि
वृत्तत्वम् ॥ २७७-७८ (24) वामनोक्ता तु उपमेयस्या-
नुक्तौ समानवस्तुन्यासः समा
सोक्तिरप्रस्तुतप्रशंसैव॥ २८३ (25) 'अकथनीयमेतत् श्रूयमाणं हि
निर्वेदाय स्यात् तथापि तु यद्यनुबन्धस्तत् कथयामि । 'वैराग्याद्' इति काका 'दैवहतकम्' इत्यादिना च वैराग्यसूचा । 'साधु विदितम्' इत्युत्तरम् । 'कस्माद' इति वैराग्ये हेतुप्रश्नः । 'इदं कथ्यते' इत्यादि सनिर्वेदस्मरणोपक्रम[:] कथं कथमपि निरूप्यतयोत्तरम् । 'वामेन' इति अनुचितेन कुलादिना उपलक्षित इत्यर्थः । अत्र [? अ] चेतनेन वृक्षविशेषेण सहोक्तिप्रत्युक्ती न संभवत इति असंभवति वाच्ये समृद्धासत्पुरुषसहवासिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं प्रतीयमानमध्यारोपेण स्थितं चेतनवृत्तान्तमारोप्य इत्थं कविना वर्णितत्वात् ।
३६९. (24) "उपमेयस्यानुक्तौ समानवस्तु
न्यासः समासोक्तिः" इति तु वामनः। तन्मतेऽप्रस्तुतप्रशं
साऽन्यथा ज्ञेया। ३७७ (25) श्रूयमाणं निर्वेदकृदपि तवानु
बन्धात्कथ्यते । कस्मादिति वैराग्यहेतुप्रश्नः । कथ्यत इत्यादि सनिवेदस्मरणोपक्रम कथंकथमपि निरूप्यते । वामेनेति । कुकूलादिनोपलक्षितः। वट इति । फलदानशून्यश्छायामात्रकरणादेव गर्विष्ठः । छायाऽपीति । श्मशानाग्निदग्धपल्लवादिस्तरुविशेषो हि शाखोटकः । मार्गः सतां पन्था अपि । अत्र वृक्षेण सहाचेतनत्वादुक्तिप्रत्युक्त्यसम्भवे तु श्रीमत्पुरुषसेवया खेदवान् दरिद्रमनस्वी कश्चित्युमान् प्रतीयमानतयाऽध्यारोप्यते ।