________________
66]
KAVYAPRAKASA-SAMKKTA
सोमेश्वर
पृ.
२६९ ( 19 ) वस्तुविषयस्य उदाहरणमित्यर्थः । चतुर्थपादे तु आरोपपूविकाहुति [:]
२७० (20) साङ्गमेतदिति सूत्रम् । न केवलं यत्र तस्यैव रूपणं, अपि तु तदङ्गस्यापि ।
२७०-२७१ ( 21 ) 'प्रेमलतिका' मिति । अत्र hatsaa लतालक्षणो रूपितः, न पुनस्तदवयवाः पत्रादय इति शुद्धत्वम् । 'प्रेमैव लतिका' इति मयूरव्यंसकादित्वादेव शब्दलोपी समासः । ननु, व्याघ्रादिद्वारेण इव-शबदलोपी समासो दृश्यते, लुप्तोपमायां सोऽपि स्यादिति संदेहसंकरः प्राप्नोति । सत्यम् । यत्रान्यतरपरिग्रहे साधकप्रमाणाभावस्तदितरस्य परिहारे न स्याद्वाधकं प्रमाणं, तत्रैव उभयप्रसङ्गः, स एव च संदेहसंकरः, इह तु लतायाः सेचनमानुकूल्याद् आरोपितधर्म एवेति रूपकपरिग्रहे साधकमिति न संकरः ।
वा
२७२ (22) ननु, मानसशब्दपरिवृत्तौ पर्यायान्तरे सति नालंकार इति शब्दालंकारत्वं, अवरस्मिंस्तु परिवर्तितेऽपि सति न स हीयत इत्यर्थालंकारता । ततश्च शब्दालंकारः परंपरितरूपकं, न तु अर्थालंकार, इत्याशङ्कयाह यद्यपीति ॥ मिति शब्दश्लेषे पुनरुक्तवदाभासे च । वक्ष्यत इति संकरालंकारे ॥ एकदेशेति । परंपरितमेव उद्भटादिभिरेकदेशवृत्तीत्युच्यते ।
उक्त
२७६-७७ (23) द्वयोरप्यर्थयोः प्राकरणि
कतया
विवक्षितत्वादिति
[ उ. १०
माणिक्यचन्द्र
पृ.
३५९ ( 19 ) वस्तुविषयं रूपकम् । चतुर्थे पादे त्वपहुतिः ।
३६१ (20) साङ्गमेतदिति । न केवलं यत्र तस्यैव रूपणं अपि तु तदङ्गस्यापि ।
( 21 ) प्रेमेति । अत्र लताङ्गिनी (ङ्गी) रूपिता न तु तदङ्गं पत्रादीति शुद्धम् । प्रेमैव लतिकेत्यत्रान्यत्रापि रूपकसमासे मयूरव्यंसकादित्वादेव शब्दलोपः । उपमासमासे तु सर्वत्र व्याघ्रादित्यादिवशब्दलोपः । अत्र तु लतायाः सेचनमानुकूल्यादारोपितधर्म एवेति रूपकस्य साधकं प्रमाणमिति न सन्देहसङ्करः ।
1
३६३ ( 22 ) यद्यपीति । अयं भावः - मानसादीनामन्वयव्यतिरेकाभ्यां अपरावृत्तिसहत्वे हंसादीनां तत्सहत्वे उभयालङ्कारः परम्परितरूपकम् । उक्तमिति । पूर्व शब्दश्लेषपुनरुक्ताभासयोः । वक्ष्यत इति । सङ्करालङ्कारे । अन्यैरिति । उद्भटाद्यैः परम्परितमेकदेशविवर्तिनाम्नोचे । तथा 'त्वमेव हंस' इत्याद्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इत्यन्ये ।
३६८ (23) वक्ष्यमाणार्थसूचाभिप्रायेणोक्तौ न श्लेषः द्वयोरर्थयोः प्रकृतत्वे