________________
उ. १० ]
INTRODUCTION: APPENDIX A
सोमेश्वर
पृ.
२६६ ( 14 ) दीनां हि प्रत्यक्षत एव अकालसंध्यादिसादृश्यमुपलभ्य अकाले संध्या न भवतीति असंभाव्यमानवस्त्वध्यवसायस्य संभावना क्रियते । 'अकालसंध्यामिव' इति प्रत्यक्षोपलब्धौ च न युक्त्यन्तरं मार्ग - णीयम्, न तु उपमा, उपमानस्य असंभवात् ।
२६६-६७ ( 15 ) न हि भवति 'भारं वहतीव पुंगवः', 'पयो ददातीव स्त्रीग at' इत्युत्प्रेक्षा ।
२६८ (16) अत्र 'स खलु तुरगैः' इत्यादिवद्भेदकं किमपि नोक्तं, 'चन्द्रो ह्येवंविधः' इत्यादेरभणनात् । 'नामितं नु गगनं स्थगितं नु' अत्र उत्प्रेक्षाश्रयेण संदेहः, तथा हि तिमिरकर्तृकायां शैलगगनादिव्याप्तौ रञ्जितत्वमुत्प्रेक्षितं, गगनानमितत्वाद्युत्प्रेक्षान्तरसंभवात् संदेहमागतम् । अन्ये तु 'नुशब्दः संभावनाद्योतक इत्युत्प्रेक्षैवेत्याहुः ॥
( 17 ) अभेदप्राधान्ये त्वाह- तद्रूपकमिति । रूपयति एकतां नयतीति रूपकम् ।
२६८ (18) तथा मुखं चन्द्र इत्यादिरूपके चन्द्रेण स्वगुणा लक्ष्यन्ते । तैर्मुखगुणाः तैरपि मुखम् । ततश्च सामानाधिकरण्यं मुखचन्द्रयोर्गुणद्वारेण ताद्रूप्यादिप्रतीत्योपपद्यते । अत एव च भेदेऽप्यभेदप्रतीतिः ॥
२६९ (19) 'चन्द्र एव मुद्राकपालम् ॥ अत्र पादत्रयमिति । समस्त
0
पृ.
माणिक्यचन्द्र
[ 65
३५६ ( 15 ) " भारं वहतीव पुंगवः" "पयो ददातीव स्त्रीगवी " तु हृद्यत्वाभावान्नोत्प्रेक्षा ।
इत्या
३५८ ( 16 ) अत्र च स खलु तुरगैरित्या - दिवन्न भेदोक्तिः । चन्द्रादयो ह्येवंविधा इत्यनुक्तेः । उत्तराधेन सन्देहनिर्वाहाच्च शुद्धत्वम् । तथा" रञ्जिता नु विविधास्त रुशैला नामितं तु (? नु) गगनं स्थगितं नु” अत्र ध्वान्ताद्यैः तर्वादि न व्याप्तं । किन्तु रञ्जितमित्याद्युत्प्रेक्षितं सन्देहद्वारेणेत्युत्प्रेक्षाश्रयेण सन्देहद्योती तु (? नु) शब्दः । अन्ये तु तु (? नु) शब्दः संभावनाद्योतकत्वादुत्प्रेक्षामेवाहेत्याहुः ।
( 17 ) रूपयत्येकतां नयतीति रूपकम् । अभेद इति भणनादभेदप्राधान्ये रूपकं स्यादिति ल ब्धम् ।
३५८ ( 18 ) तथा मुखं चन्द्र इत्यादि रूपके चन्द्रेण स्वगुणा लक्ष्यन्ते । तैर्मुखगुणाः तैरपि मुखम् । ततश्च सामानाधिकरण्यं मुखचन्द्रयोर्गुणद्वारेण ताद्रूप्यादिप्रतीत्योपपद्यते । अत एव च भेदेऽप्यभेदप्रतीतिः ।
३५९ ( 19 ) ज्योत्स्नेति । चन्द्र एव मुद्राकपालम् । अत्र पादत्रये समस्त