SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 64] KAVYAPRAKASA-SA MKETA सोमेश्वर पृ. २६२ ( 11 ) वृत्तिः, तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयः, न त्वस्य उपमासमास्येति । २६४ ( 12 ) 'विलासायुधः कामः, लासः क्रीडनम् ।' अत्र 'सैव नितम्बिनीव' इति 'तद्विलासा इव' इत्येतच्च भेदाभावाद् उपमानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते । ( 13 ) अत एवान्यधर्माणां स्वधर्मभूताद् वस्तुन उत्कलितानां रसभावाद्यनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणम् उत्प्रेक्षा । सा च मन्ये- प्रभृतिभिद्यत्यते । २६६ (14) अकालसंध्यामिव धातुमत्ताम् । आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तव कावनम्रा संचा रिणी पल्लविनी लतेव ॥ अचिराभामिव [च]घनां ज्योनामिव कुमुदबन्धुना विकलाम् । रतिमिव मन्मथरहितां श्रियमित्र हरिवसः पतिताम् ॥ स्थितः पृथिव्या इव मानदण्डः । हिरण्मयी साssस लतेव जं गमा ॥ च्युता दिवः स्थारिवाचिरप्रभा || बालेन्दुवक्राण्यविकाशभावाद् बभुः पलासान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ इत्यादि उत्प्रेक्षैव । धातुमत्ता पृ. माणिक्यचन्द्र [ उ. १० ३५३ ( 12 ) विलासायुधः कामः लासः क्रीडा, अत्र नितम्बिनी नितम्बिनी वेति, विलासा विलासा इवेति भेदाभावादुपमानतयाऽनुपपद्यमानमन्यव्यावृत्तौ लक्षणयाऽवतिष्ठते । ३५४ ( 13 ) अन्यधर्माणां स्वधर्मिभूताद्वस्तुन उत्कलितानां रसभावाद्यभिव्यक्त्यनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणमुत्प्रेक्षा । तस्याश्च मन्ये शङ्के ध्रुवमिवाद्या व्यञ्ज काः । २५५ (14) “अकालसन्ध्यामिव धातुम "" ताम् "" स्थितः पृथिव्या इव मानदण्डः " "भूगतामिव कौमुदीम्” " रम्भामिव भुवं गताम्' इत्यादि तूत्प्रेक्षैव । धातुमत्तादेहि प्रत्यक्षेणैव कालसन्ध्यादिसादृश्यमुपलभ्याकाले सन्ध्या न स्यादित्यसम्भाव्यवस्त्वध्यवसायस्य सम्भावना क्रियते अकालसन्ध्यामिवेति । प्रत्यक्षोपलम्भे च न युक्तयन्तराकाङ्क्षा । उपमानस्यासम्भवान्न तूपमा ।
SR No.034219
Book TitleKavya Prakash Part 02
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages232
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy