________________
उ. १० ]
INTRODUCTION: APPENDIX A
सोमेश्वर
पृ.
२५५ (३) उपमानादिचतुष्टयं यत्र प्रयुज्यते सा पूर्णोपमा ।
1
२५५-५६ ( 4 ) तथैव अयं यथा-इवादि रुपमानोपमेययोरेकतरस्मिन्नपि अविश्रान्तः श्रीतेन रूपेणोभयाधारमुपमानोपमेयभावं द्योतयतीति श्रौती । तत्सद्भावे, यथा-इव-वा-सद्भावे। तथैवेति, 'श्रौती' त्यर्थः । इवार्थे वतेर्विहितत्वाद् इव शब्दवच्छ्रतेन रूपे णोभयानुयायितयोपमानोपमेयत्वावगतिः । 'तेन' इति चन्द्रेण तुल्यं मुखम् " तद्' इति चन्द्रविम्बं तुल्यं मुखस्य ॥ 'इदं च' इति चन्द्रबिम्बं च मुखं च तुल्यम् । साम्यपर्यालोचनयेति । सममेव साम्यं साधारणो धर्मः । तुल्यता द्विष्ठरूपं सादृश्यम् । न तु तुल्यादिशब्दादेव साम्यप्रतीतिः, अपि तु अर्थात्, तुल्यादीनां पदानामुपमानोपमेययोरेकतरत्रैव विश्रान्तेः, तु तद्गतसादृश्यपर्यालोचनया तत्संबन्धित्वावगतिः ।
अन्यत्र
२५७ (5) 'सुरतरुणा सदृश' इति सहश-शब्देनोपमेये विश्रान्तेन उपमेयगतं सादृश्यं स्वकण्ठेनाभिहितम् । उपमाने च तस्यार्थात् प्रतिपत्तिः, उपमेयवर्तिसादृश्यविचारेण उपमानोपमेयत्वावगतेः । बहुव्रीहौ तु उपमाने विश्रान्तेरुपमानगतसादृश्यपर्यालोचनया उपमेयस्य उपमेयत्वावगतिः ॥
[ 61
माणिक्यचन्द्र
पृ.
३३९ (४) उपमानमुपमेयं साधारणधर्म उपमाप्रतिपादकश्च यत्र स्युः पूर्णा ।
1
३४०-४१ ( 4 ) तथैवायमिवादिरुपमानोपमेयोरेकत्राप्यविश्रान्तः श्रुत्या द्विष्टं उपमानोपमेयभावं वक्तीति । तत्सद्भावे यथेवादिभावे । श्रौती । तथैवेति । श्रौतीत्यर्थः । इवार्थे विहितो वतिरिववत् शेयः । तेनेति । चन्द्रेण । तत्तुल्यमिति । चन्द्रबिम्बं तुल्यं मुखस्य । इदं चेति । मुखं च चन्द्रबिम्वं च तुल्यम् । उभयत्रापीति । क्रमेणेति शेषः । पूर्वस्योस्वेकत्रैवेति भावः तुल्यादिति । तुल्यप्रकारशब्दानाम् । साम्येति । सममेव साम्यम् । समानो धर्मः । द्विष्ठरूपं सादृश्यं तुल्यता । अयं भावः- उपमानोपमेययोः साम्यप्रतीतिर्न तुल्यादिशब्दादेव, किन्त्वर्थातू, तुल्यादिपदानामेकत रत्रैव विश्रान्तेः । अन्यत्र तु साम्यालोचनया सादृश्यप्रतीतिः ॥
३४३ ( 5 ) अत्र सुरतरुणा सदृश इति
सदृशशब्द उपमेय विश्रान्तस्तद्गतं सादृश्यं साक्षाद्भूते । अन्यत्र तु सादृश्यं अर्थात्प्रतीयते, बहुव्रीहौ तूपमाने सदृशशब्दो विश्राम्यति । ततस्तत्र सादृश्यं साक्षादपरत्र तु अर्थात् । इयं समासे आर्थी पूर्णोपमा ॥