________________
उ.९]
INTRODUCTION : APPENDIX A
[59
सोमेश्वर
माणिक्यचन्द्र
२४८ (20) पादः । इह च सर्वे [त] दैव
उपलभ्यत इति अर्धभ्रमस्या
प्यवस्थानात् सर्वतोभद्रम् । २४९ (21) अन्ये इति, मुशलधनुर्वाणश-
क्तिहलशूलस्वस्तिकनागपाशचक्रादयः। स्वरव्यञ्जनस्थानगतिनियमेऽन्येऽपि चित्रप्रका
राः संभवन्ति । २५० (22) वर्णच्युतं यथा--
• सितनृशिरःसजा [च] रविमौ. लिशिरोमणिभूषणैस्तया शिखिरुचिरार्धदृक् पृथुललाटतटे तिलकक्रिया च सा। स्फुटविकटाट्टहासललितं वदनं स्मितपेशलं च तद् अभिनवमीश्वरो वहति वेषमहो तुहिनाद्रिजार्धयुक् ॥ अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षरसतकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन, यदि वा आद्याक्षरसप्तकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुत
विलम्बितवृत्तेन ॥ २५१ (23) आमुखे इति, न पुनः परमा-
र्थतः पर्यवसानेऽन्यार्थत्वमित्यर्थः॥
३३३-३३४(21) खड्गादित्यादिशब्दान्मुसल
धनुर्बाणचक्रशक्तिशूलहलस्वस्तिकादयः । तथैकद्वित्रयादिव्यञ्जनस्थानपादाश्लिोकगतप्र
त्यागतादयश्चित्रमेदा ज्ञेयाः। ३३४-३५ (22) स्खं वर्णच्युतं यथा-नृपदि
तिजामरप्रभुनतात्रियुगो जलदद्यतिर्विभः, प्रथभजगाधिपस्फुटफटासुभगः कमठारिजित्तथा । शिवसुखसंपदेव्ययविलासगृहं निखिलैनसां हरो, धनविधुता वनीं हरतु सकलः कलिलावनी जिनः ॥ अत्र श्रीपार्श्ववर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयस्यान्त्याक्षरसप्तकस्य च च्युतौ प्रमिताक्षरावृत्तेन, तथाऽऽद्याक्षरसप्तकस्यान्त्याक्षरद्वयस्य च्युतौ द्रुतविलम्बितवृत्तेन तस्यैव वर्णनम् ।
३३५ ।।
आमुख इति । न तु परमार्थतः। एतेन पर्यवसानान्यथात्वं लब्धम् ॥