________________
58]
KAVYAPRAKASA-SAMKRTA
[उ.९
सोमेश्वर
माणिक्यचन्द्र
३३२-३३३ (18) मादीनि च चत्वारि गृहीत्वा
प्रथमः पादः । द्वितीयात्प्रथम प्रथमाद द्वितीयतृतीये द्वितीयतृतीयाभ्यां चतुर्थे चतुर्थातृतीयद्वितीये तृतीयात्पादात् प्रथममक्षरं गृहीत्वा द्वितीयः पादः। द्वितीयादष्टमं प्रथमात्सतमषष्ठे द्वितीयतृतीयाभ्यां पञ्चमे चतुर्थात् षष्ठसप्तमे तृतीयादष्टमं च गृहीत्वा तृतीयः पादः। चतुर्थादिभ्यः प्रथमादीनि प्रथमादिभ्यः पञ्चमादीनि पादेभ्योऽक्षराणि गृहीत्वा चतुर्थः पादः।
पृ. २४७ (18) पादेभ्यः पञ्चमादीनि चत्वारि
गृहीत्वा प्रथमपादः । द्वितीयपादाद् आद्याक्षरं, द्वितीयतृतीयपादाभ्यां चतुर्थपञ्चमाक्षरे, चतुर्थपादात् तृतीयद्वितीये, तृतीयात् पादात् प्रथमंचाक्षरं गृहीत्वा द्वितीयपादः। द्वितीयाद् अष्टमं, प्रथमात् सप्तमषष्ठे, द्वितीयतृतीयाभ्यां पञ्चमे, चतुर्थात् षष्ठसप्तमे, तृतीयाद् अष्टमं गृहीत्वा तृतीयपादः । चतुर्थात् प्रथम, तृतीयाद् द्वितीयं, द्वितीयात् तृतीयं, प्रथमात् चतुर्थपञ्चमे, पुनर्द्वितीयात् षष्ठं, तृतीयात् सप्तमं चतुर्थाद् अष्टमं च गृहीत्वा
चतुर्थः पादः ॥ २४८ (19) एषोऽष्टदलपद्मः । तथा भा
शब्दः कर्णिकास्थाने, ततोऽक्षरद्वयेनैकं दिग्दलं निर्गमप्रवेशाभ्यां भा-शब्दं यावत् । ततो, ऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशब्दं यावत् । पुनर्भा-शब्दो निर्गमेण च तदेवाक्षरद्वयमित्यादिना क्रमेण दलाष्टकमुत्पाद्यम् । एवं दिग्दलानि निर्गमप्रवेशाभ्यां उत्पाद्यानि, विदिग्दलानि तु प्रवेशेनैवेति दिग्दलवर्णानां द्वि-भाशब्दस्य चाष्टकृत्व
आवृत्तिः प्रस्तारे ॥ २४८ (20) तत्र हि प्रथमादिपादाद्यक्षराणि
चतुर्थतृतीयद्वितीयप्रथमपदाटमाक्षराणि च प्रथमाः प्रथमपादः। प्रथमादिपादद्वितीयाक्षराणि च चतुर्थादिपादसप्तमाक्षराणि च द्वितीयपादः । एवं तृतीयषष्ठाक्षरैस्तृतीयः पादः चतुर्थपञ्चमैश्चतुर्थः
३३३ (19) स्थापना यथा-भाशब्दः कर्णि
कास्थाने । ततोऽक्षरद्वयेनैकं दिग्दलं निस्सरणक्रमेण विदिग्दलं चाक्षरद्वयेन प्रवेशक्रमेण । ततः स एव भाशब्दस्ततोऽक्षरद्वयेन दिग्दलं निर्गमप्रवेशाभ्यां भाशब्दं यावत् । ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशब्दं यावत् । पुनर्भाशब्दो निर्गमेण च तावदक्षरद्वयमित्यादिना क्रमेण दलाष्टकमुत्पाद्यमिति दिग्दलवर्णानां द्विः
भाशब्दस्य चाष्टकृत्व आवृत्तिः। ३३४ (20) तत्र हि प्रथमादिपादानां प्रथ
मैः चतुर्थतृतीयद्वितीयप्रथमपादानां अष्टमैश्चाक्षरैः प्रथमपादः। एवं द्वितीयसप्तमैः तृतीयषष्ठेश्चतुर्थपञ्चमैश्च द्वितीयतृतीयचतुर्थपादाः । इह च सवत्र तदेवोपलभ्यत इत्यर्थभ्रमस्याप्यवस्थानात् सर्वतोभद्रम् ।