________________
७.९]
INTRODUCTION APPENDIX A
सोमेश्वर
पृ.
२२८ (4) 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च' इत्यादौ च पौनरुक्त्यदोषाभावेऽपि न यमकत्वम् ।
२४० (5) प्राकृतेऽन्योऽर्थः । 'मम देहि रसं धर्मे तमोवशां तमः परिभूतामाशां गमागमात् संसाराद् हर । ण इति नः । तथा हे हरवधु शम्भुपत्नि शरणं त्वम् । चित्तमोहोऽपसरतु मे सह'सा' | 'चित्तमोह' मिति 'गुणाद्या: की' इति प्राकृते नपुंसकत्वम् । एवं संस्कृतमागध्योः संस्कृतपैशाच्योः संस्कृतशौर'सेन्योः संस्कृतापभ्रंशयोः श्लेषो ज्ञेयः । (a) संस्कृतप्राकृतयोर्योगः, यथा - सरले सहास - रागं परिहर रम्भोरु मुञ्च संरम्भम् । विरसं विरहायासं वोढुं तव चित्तमसहं मे ।
२४१ (6) 'सहस्रम् ' इति क्रियाविशेषणम् । 'स्यां स्याद्' इति च । नन्दतीति 'नन्दिता' नन्दिनो गणविशेषस्य च भाव इति तृच्-त-प्रत्यययोः श्लेषः ।
(7) 'हे हर सर्वस्य त्वं सर्वस्वम् ।
भवः संसारः, तच्छेदनिष्ठः । नयोपकारयोः सांमुख्यं शरीरवर्तनम् । आयासि [आ] गच्छसि' ॥ अपरोऽर्थः । 'हर अपहर, भव संपद्यस्व, नय निवारय । आयासि खेदकारि । वर्तनं वृत्तिं विस्तारय' । अत्र स्यादित्याद्योर्विभक्तयोः । वचनश्लेषे तूदाहृतम् ॥
[55
माणिकेचन्द्र
पृ.
३१५ (4) “उदेति सविता ताम्रस्ताम्र एव" इत्यादौ तत्र पौनरुक्त्यदोषाभावाद्यमकत्वं प्रसज्येतेत्यर्थ ...
......
३२२-२३ (5) प्राकृतपक्षे तु हे हरवधु । शम्भुपत्नि मम देहि रसं धर्मे तमोवशामाशां गमागमात् भवात् हर स्फुटय । तथा नोऽस्माकं शरणं त्वं । चित्तमोहोsपसरतु मे सहसा बलेन । प्राकृतत्वाच्चित्तमोहमित्यत्र क्लीत्वम् । एवं संस्कृतस्यापभ्रंशादिभाषाश्लेषोऽपि ज्ञेयः ।
३३१ ( 5a ) तत्र संस्कृतस्य प्राकृतभाषया श्लेषो यथा-सरले सहासरागं परिहर रम्भोरु ! मुञ्च संरम्म् ।
विरसं विरहायासं वोढुं तव चित्तमसहं मे ।
३२३ (6) क्रियाविशेषणं सहस्रशब्दो बाहुल्यार्थः । स्यां स्यादिति च । नन्दतीति नन्दिता । नन्दिनो गणविशेषस्य भावो नन्दितेति चाख्यातकृत्तद्धितप्रत्ययानां भेदः ।
(7) हे शम्भो त्वं सर्वस्य सर्वस्वं । त्वमेव संसारोच्छेदतत्परस्सन् नयोपकारयोः साम्मुख्यं शरीरवर्तनमायासि आगच्छसि । अन्यच्च हर स्फोटय । भव सम्पद्यस्व । नय निवारय । आयासि खेदकारि वर्तनं तनु प्रथयेति । सुप्तिङ्गविभक्त्योभैदः ।