________________
48]
KAVYAPRAKASA-SAMKETA
सोमेश्वर
रस्य
तथा हि 'रावणः' इति जग(15) दाकन्दकारित्वाद्यर्थान्तरसंक्रमितवाच्यो जनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपद्यते । ऐश्वर्य पाण्डित्यं परमेशभक्तिदेशविशेषोऽभिजन इत्येतत्सलोकमवबाधमानस्याधर्मपनार्थ क्रियाकारकमिति तावतोऽर्थस्य तिरस्कारकत्वेनैव रावणचेष्टितं निर्वाहणी - यम् । यत्तु अन्यदुपात्तं 'क्क नु पुनर्' इति तद् यदि ससंदेहत्वेन योज्यतेऽथाक्षे पत्वेनाथापि 'नेहग्वरो लभ्यते ' इति अर्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिद् निर्वाहः ॥
१६२-१६३ (16) न हि वाताहारत्वाद् अधिको दम्भस्तोय कणव्रतम् । नापि ततोऽधिकं दम्भवत्त्वं मृगाजिनवसनमिति । व्युत्क्रमेण चोक्तं दम्भप्रकर्षे विधत्ते, न च तथोक्तमिति विध्ययुक्तत्वम् ॥
पृ.
१६१-६२
१६३ ( 17 ) किमस्मत्प्राणान् दमयसीति वि धौ वाच्ये विरहिप्राणदमनेत्य नुवादोऽयुक्तः ।
(18) इहान्वयव्यतिरेकाभ्यामर्थस्यैव अश्लीलत्वं, पूर्वत्र तु पदवाक्योरिति विवेकः ।
१६४ ( 19 ) विदग्धजनमनोविलोभनक्षमकान्तारत्नोपमानभावेन मालाया उपादानाद् उत्कृष्टपुष्पग्र थितत्वावगमाय प्रयुक्तः । (20) 'त्यज करि-कलभप्रेमबन्धं करि। अत्र करि-शब्दात् ताद्रूप्यावगतिः ।
[ उ. ७
माणिक्यचन्द्र
पृ.
२५३-२५४ (15) अयं भावः- रावण इत्येतत् जगदाकन्दकारित्वाद्यर्थान्तरं वदजनकस्य धर्मवीरं प्रत्यनुभावतामेति । ऐश्वर्य पाण्डित्यं परमेशभक्तिर्देश विशेषोऽभिजन इत्येतत्सर्वं लोकवाक्यवाधेनाधर्मपरस्य निष्फलमिति तावतोऽर्थस्य तिरस्कारकत्वेनैव रावणचेष्टितं निर्वाहणीयम् । यत्त्वन्यदुपात्तं क्व नु पुनरिति तद्यदि ससन्देहत्वेन योज्येत अथाक्षेपत्वेनाद्यापि नेदृग्वरो लभ्यते इत्यत्रार्थान्तरन्यासत्वेन तथाप्यप्रकृतस्य धर्मवीरस्य न कथंचिन्निर्वाह: ततोऽस्थानमुक्तः ।
२५५ ( 16 ) न हि वाताहारत्वादधिको दम्भोऽम्भःकणवतं, नापि ततोधिकं दम्भनत्वं मृगाजिनवसनमिति । व्युत्क्रमोक्तिस्तु प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणानुशोचनमयनिर्वेदस्याङ्गं स्यादेवेति विध्ययुतत्वम् ।
२५६ ( 17 ) अत्र किमित्यस्मत्प्राणान् दमयसीति विधौ वाच्ये प्राणदमनेत्यनुवादोऽयुक्तः ।
(18) इहान्वयव्यतिरेकाभ्यामर्थ एवालीलः पश्चात्तु पदवाक्ये अलीले इति भावः ।
२५८ ( 19 ) विदग्धविलोभनक्षमकामिन्युपमानभावेन मालाया उपादानादद्भुतपुष्पग्रथितत्वमवगमयतीत्यर्थः ।
( 20 ) ' त्यज करिकलभ ! प्रेमबन्धं करिण्याः' । अत्र करिशब्दाताद्रूष्यावगतिः ।