________________
INTRODUCTION : APPENDIX A
१.
.
[48 माणिक्यचन्द्र १७८(17) बोद्धमात्रेति । वाच्यवेदी बोद्धा,
व्यङ्ग्य वेदी तु विदग्धः । तथा वाच्योऽर्थःप्रतीतिमात्रं, व्यङ्ग्यस्तु चमत्कारं करोतीति कार्यभेदः।
सोमेश्वर १०३ (17) बोद्धमात्रेति । वाच्यबोद्धा बो-
दे॒वोच्यते, व्यङ्गयबोद्धा तु विदग्ध इति । तथा वाच्योऽर्थः प्रतीतिमात्रकारी, व्यङ्ग्यश्च चमत्कारकारीति वाच्यव्यङ्गय
योः कार्यस्य भेदेऽपि ॥ १०५ (18) अत्र वनवासादिरनवधिल
क्ष्योऽर्थः। (19) अत्र राम-पदं साहसैकरसत्वा
दिलक्ष्यार्थसंक्रमितवाच्यं व्यञ्जकम् ॥ विशेषव्यपदेशेति । यथा व्यङ्गयवोद्भुर्विदग्ध इति व्यपदेशः, तथा लक्ष्यार्थबोद्धरपि लक्षक इति
विशेषव्यपदेश इत्यपि समानम् ॥ (20) नखल्विति । यथा 'गङ्गायां
घोषः' इत्यादौ मुख्येन गङ्गाशब्दार्थेन तटादिर्लक्ष्यते, न तथा वनादिरपि लक्षयितुं शक्यते । व्यङ्गयस्तु विचित्रः प्रकाशते, प्रकरणादिसामग्रीवैचित्र्यात् ।
१८० (18) अत्र वनवासादिरनन्तो
लक्ष्योऽर्थः। १८०-१८१ (19) अत्र रामपदं साहसैक
रसत्वाद्यनन्तलक्ष्यार्थसङ्कमितवाच्यम् । विशेषेति । यथा व्यङ्ग्यवेदी विदग्ध इति व्यपदिश्यते तथा लक्ष्यवेदी लक्षक
इत्यपि तुल्यम्...। १८१ (20) न खल्विति । अनेन तद्यो
गादिकं नियतत्वमुक्तं, यथा गङ्गाशब्दो मुख्येन स्वार्थेन सम्बद्धं तटादि लक्षयति न तथा वनादि लक्षयितुं शक्नोति । ध्वनिस्तु प्रस्तावादिसा
मग्रीवशाद्विचित्रो भाति । १८२ (21) लक्षणानुगमेन ध्वननस्य
दर्शनात् । तदनुगतमेवेति । लक्षणानुगतमेव । तस्येतिध्वननस्य । भावादिति । न हि व्यङ्ग्ये प्रतीयमाने वाच्याद्बुद्धिदूरीभवति । न चोभयेति।अभिधालक्षणारूपमुभयम् । अवाचकेति । अर्थानुपयोगेऽपि कोमलादिवर्णानां रसव्यञ्जकत्वदर्शनात् । अशब्देति । अभिधाव्यापारास्पृष्ट इत्यर्थः । अवलोकनादीत्यादिशब्दात् बाष्पावेशकुचकम्पादि । तस्येति । ध्वननस्य ।
१०६ (21) न हि लक्षणैकरूपमेव ध्वननं
लक्षणानुगमेन ध्वननस्य दर्शनात् । यथा 'गङ्गायां घोषः' इत्यादौ ॥ न च लक्षणानुगतमेव ध्वननं, विवक्षितान्यपरवाच्येऽभिधामूलत्वेन ध्वननस्य भावात् । न हि व्यङ्गये प्रतीयमाने वाच्ये बुद्धिदूरीभवति । न चोभयेति ॥ अभिधालक्षणानुसारेणैव ध्वननमित्यपि नेत्याह-अवाचकेति । ललितपरुषादिवर्णानुप्रासस्यार्थाभिधानानुपयोगिनोऽपि रसं प्रति व्यञ्जकत्वस्य दर्शनात् ॥ न च वर्णमात्रानुसारेणैव ध्वननमित्याह-अशब्दात्मकेति, अभिधाव्यापारेणास्पृष्ट