SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 42] KÁVYAPRAKASA-SAMKETA सोमेश्वर पृ. स्फुरदोष्ठमुद्र १००-१०१ (15) रेव क्रियन्ते । तदङ्गत्वमवगम्यत इत्यर्थः ॥ 'अग्निरन्नस्यानपतिस्तस्याहं देवयज्ययान्नस्यान्नपतिर्भूयासम् १' ' दधिरयदर्थो भूयासं तदमुं दभेयम् २' 'अग्नीषोमो वृत्रहणौ तयोर्देवयज्यया वृत्रहा भूयासम् ३' इति मन्त्रत्रयात् आग्नेयो याग उपांशुया अग्नीषोमीयो यागश्चेति यागत्रयं क्रमेण स्थितम् । तत्र प्रथमतृतीयमन्त्राभ्यां देवयज्यालक्षणालिजादु आद्यन्तौ यागौ आक्षिप्येते, द्वितीयेन मन्त्रेण द्वितीयो यागस्तु । आग्नीषोमीयलक्षण उपांशुयाजः स्वरः स्थानवशात् ॥ 'उद्गाताऽध्वर्युहोता' इति । उद्गायतीत्यादिसमाख्ययाऽन्वर्थे संज्ञाबलात् सामयजुर्ऋग्वेदेष्वधिकृत इति निश्चीयते तेष्वङ्गभाव इत्यर्थः । श्रुतिलिङ्गादिविकल्पसंभवे तु श्रुत्यर्थ एव क्रियते, न लिङ्गाद्यर्थोऽर्थविप्रकर्षात्, यथा ऐन्या गार्हपत्यमुपतिष्ठते' इत्यत्रैवैन्या ऋच इन्द्रप्रकाशनसामर्थ्य लक्षणाल्लिङ्गाद् इन्द्रोपस्थापनविनियोगो गार्हपत्यमिति द्वितीयया श्रुत्या बाध्यते, तेन ऐन्द्र्याप्येतया गार्हपत्यस्यैवोपस्थानं भवति ॥ १०२ ( 16 ) पुनर्वाच्यव्यङ्ग्ययोर्भेदं दर्शयन्नन्विताभिधानवादिनां दोषमाह-अपि चेति ॥ निषेधविध्यात्मनेति, स्वरूपस्याभेदेऽपीति योगः । निषेधो वाच्यो विधिश्च व्यङ्ग्यः । संशयश्च शान्तशृङ्गार्यन्यतरनिश्चयश्च, तत्र संशयो वाच्योऽन्यतरनिश्चयश्च व्यङ्गय इति स्वरूपस्य भेदः ॥ [ उ. ५ माणिक्यचन्द्र पृ. १७३ १७४ (15) Sन्नादो भूयासम् ' दब्धिर स्यमध्वो भूयासं तदमुं दभेयम्' 'अग्नीषोमयोरहं देवयज्यया वृहा भूयासम् ' । इति मन्त्रत्रयादाग्नेयो यागः उपांशुयागः अग्नीषोमीयो यागश्चेति यागत्रयं क्रमेण स्थितम् । तत्र प्रथतृतीयमन्त्राभ्यां देवयज्यालक्षणालिङ्गादाद्यन्तौ यागावाक्षिप्येते । द्वितीयेन मन्त्रेण द्वितीयो यागः । यागस्तु उपांशुयागः स्फुरदोष्ठमुद्रस्वरस्था नवशात् ॥ उद्गाता अध्वर्युः होतेति उद्गायतीत्यादि समाख्यया अन्वर्थसंज्ञाबलात् सामयजुऋग्वेदेष्वधिकृत इति निश्चीयते I वङ्गभाव इत्यर्थः । ऐन्द्रेत्यत्र ऐन्द्रया ऋच इन्द्रप्रकाशन सामर्थ्यलक्षणालिङ्गादिन्द्रोपस्थापनविनियोगो गार्हपत्यमिति द्वितीयाश्रुत्या वाध्यते तेनैन्द्रयाऽप्येतया गार्हपत्यस्यैवोपस्थापनं भवति । १७६ ( 16 ) पुनरप्यन्विताभिधायिनं दूषयति-अपि चेति । तत्र तत्रेति । प्रस्ताववक्तृप्रभृतिविशेषे । विध्यात्मनेति । स्वरूपस्य भेदेऽपि यद्येकत्वमिति योगः । निषेधो वाच्यो विविश्व व्यङ्ग्यः । तथा संशयो वाच्यः, शान्तशृङ्गारिगोरेकतरनिश्चयश्च व्यङ्ग्यः ।
SR No.034219
Book TitleKavya Prakash Part 02
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages232
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy