________________
७.५]
INTRODUCTION : APPENDIX A
[41
सोमेश्वर
माणिक्यचन्द्र
९९ (13) उक्तस्यैव शब्दस्य संबन्धिन्य-
थेऽभिधेये तात्पर्य न तु निमित्तान्तरेण प्रतीतमात्रे व्यङ्गये
ऽप्यर्थे तात्पर्यावकाशः। १०० (14) यस्य ह्यभिधेयेनार्थेन सह नैक-
ट्यं, स बलीयान् । यस्य च व्यवहितत्वं स दुर्बलः । यदाहुः- 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पददौर्बल्यमर्थविप्रकर्षात् ।' न च व्यवहितत्वमव्यवहितत्वं वाभिधाव्यापारगम्यं, किं तु निमित्तत्ववैविध्याद् व्यङ्ग्यमेव तच्च यदि नाभ्युपगम्यते तत् कथमेकस्य बलीयस्त्वं, सर्वेषां श्रुत्यादीनामभिधाव्यापारस्य समानत्वात् प्रधाने चाङ्गत्वापादनं श्रुत्यादीनामर्थः। श्रवणं श्रुतिः । यदर्थस्याभिधानं शब्दश्रवण
मात्रादेवावगम्यते। १००-१०१ (15) 'बहिर्देवसदनं दामि' इति।
देवाश्रयदर्भच्छेदनेऽयं मन्त्र इति। 'दामि' इति लवनलिङ्गाद् अनेन मन्त्रेण बहींषि लुनीया. दिति प्रतीयते ॥ वाक्यतो यथा-'श्वेतं छागमालमेत ।' अत्रैकवाक्योपादानाच्द्रुतगुणस्य च्छागावच्छेदकत्वेन क्रियाङ्गभावो गम्यते। यथा वा 'अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति' इत्यत्र अरुणादीनां क्रमेण संबन्धः श्रोतः । अरुणैकहायन्यादीनां परस्परं पुनर्वाक्यीयम् ॥ दर्शपौर्णमासप्रकरणे ‘समिधो यजति तनूनपातं यजति इडो यजति बहिर्यजति स्वाहाकारं यजति' इति पञ्च प्रयाजा उक्ताः, ते च दर्शपौर्णमासयो
१७० (13) उपात्तस्यैव शब्दस्य सम्बन्धि
न्यर्थेऽभिधेये तात्पर्य, न तु हेत्वन्तरेण ज्ञातमात्रे व्यङ्गये
प्यर्थे तात्पर्यप्रसङ्गः। १७२-१७३ (14) यस्याभिधेयेनार्थेन सह
नैकट्यं स बलीयान् । यस्य च व्यवहितत्वं स दुर्बलः । व्यवहिताव्यवहितत्वे च नाभिधागम्ये, किन्तु व्यङ्गये। एतच्च त्वया नेष्यते । तत्कथमेकस्य बलीयस्त्वं, श्रुत्यादीनामभिधाव्यापारस्य समानत्वात् । प्रकृतिप्रत्ययश्रुत्योः स्वार्थाभिधायकत्वेन पदस्य कारकविभक्तीनां च विनियोजकत्वेन लिङ्गादीनां विधिसामर्थ्येन वेति क्रमेणाभिधात्रीविनियोक्रीविधात्रीसंसंशाः तिनः श्रुतयः । यदर्थस्याभिधानं शब्दश्रवणमात्रादे
वावगम्यते सा श्रुतिः। १७३-१७४ (15) 'वर्हिदेवसदनं दामि' अत्र
दामीति लवनलिङ्गादेवाश्रयो दर्भोऽनेन मत्रेणोत्पाद्य इति प्रतीयते । श्वेतं छागमालभते' अत्रैकवाक्योपादानात् श्वेतगुणस्य छागावच्छेदकत्वेन कियाङ्गभावो गम्यते । यथा वाअरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति' इत्यत्र अरुणादीनां क्रयेण सम्बन्धः श्रौतः, अरुणैकहायन्यादीनां मिथः पु. नर्वाक्यीयः । दर्शपूर्णमासप्रकरणे, 'समिधो यजति' 'तनूनपातं यजति' 'इडो यजति' 'बर्हिर्यजति', 'स्वाहाकारं यजति' इति पञ्च प्रयाजा उक्ताः । ते च दर्शपूर्णमासयोरेव क्रियन्ते, तदङ्गत्वमवगम्यत इत्यर्थः । 'अग्नेरहं देवयज्यया