________________
40]
KAVYAPRAKASA-SAMKETA
सोमेश्वर
पृ.
९७ (१) श्च सामान्यभूतः पदार्थोऽसमितत्वाद् अनभिधेय इत्याह अतिविशेषभूत इति । विशेषमतिक्रान्तोऽतिविशेषः, तं भूतः प्राप्तोऽतिविशेभूतः सामान्यः पदार्थः । यत्र तु सामान्यरूपोऽपि पदार्थो न वाच्यस्तत्र कैव कथा व्यङ्ग्यस्य विध्यादेरर्थान्तरस्य वाच्यतायाम् ॥
९८ ( 10 ) वाक्यार्थस्तु अपदार्थ एवेति योगः । कीदृशो वाक्यार्थोऽन्वितविशेषः । अन्वितविशेषो यत्र स तथा, समग्राङ्गसंपूर्ण इत्यर्थः । aasarisस्ततः पक्षद्वयेऽप्यपदार्थ एव वाक्यार्थः ॥ ( 11 ) यदपीति । अन्विताभिधानवादिभिरेव प्राभाकरैः ॥ नैमित्तिकार्थेति । वाक्यार्थतात्पर्यानुसारेण निमित्तानि पदार्थाः कल्प्य न्ते, ततो नैमित्तिक एवायं न व्यय इति भावस्तेषाम् ॥ अन्वितमात्र इति, सामान्यावच्छादितविशेषरूपे । एवं चेति । निमित्तेषु संकेत इति, नैमित्तिकेऽर्थे संकेताकरणात् कथं तस्य साक्षात्प्रतिपत्तिः, तस्मिंश्चाप्रतिपन्ने कथं पदार्थावगमानां नियतनिमित्त
भावः ।
(12) यथा 'देवदत्तः काष्ठैः स्थाल्यामोदनं पचति' इत्यादौ ओदनपाकश्चेदन्यतः सिद्धस्तदा स्थालयधिकरणत्वमात्रं विधेयं, तस्यैष साध्यत्वात् ॥
[ उ. ५
माणिक्यचन्द्र
पृ.
१६७-१६८ ( 9 ) ततः सामान्यावच्छादितो विशेष एव सङ्केतस्य विषयभूतः, सामान्यं त्वनुतमपि ज्ञायत इत्याह- अतीति । विशेषमतिकान्तो यः स्वभावः सोऽतिविशेषः तं भूतः प्राप्तोऽतिविशेषभूतः सामान्योऽर्थः । केवलप दार्थरूप इति यावत् । यदि वा विशेषमतिक्रान्तः अतिविशेषः, स चासौ भूतश्च स तथा सामान्योऽर्थः । यत्रेति । वाक्ये | यदाऽन्विताभिधानवादे सामान्योऽप्यर्थो न वाच्यस्तदा का वार्ता व्यङ्ग्यस्य वाच्यतायाम् । १६८ ( 10 ) वाक्यार्थस्त्वपदार्थ एवेति योगः । अन्वितविशेषः- सर्वाङ्गसम्पूर्णः केवलविशेषरूपः । एतत् वाक्यार्थविशेषणम्, इति पक्षद्वयेऽप्यपदार्थ एव वाक्यार्थः ।
१६८ - १६९ ( 11 ) यदपीति । अन्विताभिधानवादिभिः प्राभाकरैः । नैमित्तिकार्थेति । वाक्यार्थतात्पर्यनैमित्तिकोऽर्थः । निमित्तानीति । प्रस्तावाच्छब्दाः, ततस्तात्पर्यानुसारेण यदा शब्दाः कल्प्यन्ते तदा व्यङ्गयं वाच्यमेवेति भावस्तेषाम् । अन्वितमात्र इति । सामान्यावच्छादितविशेषरूपे ॥ निश्चितमिति । निमित्तेषु सङ्केतो न नैमित्तिकेऽर्थे तत्कथं नैमित्तिकस्य साक्षात्प्रतीतिः, तदप्रतीतौ कथं पदार्थावगतिर्नियतनिमित्ता स्यादिति ।
१६९ (12) यथा चैत्रः काष्ठैः स्थाल्यामनं पचतीत्यादावन्नपाकश्चेदन्यत स्सिद्धः, तदा स्थाल्याधारत्वमेव विधेयम्, तस्यैव साध्यत्वात् ।