________________
उल्लास ५
सोमेश्वर
पृ.
८६ (1) 'पश्यताम्' इत्यनादरे षष्ठी। पश्यतः प्रियाननाद्दत्येत्यर्थः । भावस्येति । शत्रुस्त्रीणां रत्यभावे सैनिकानामनौचित्यप्रवृत्तत्वाद् रसाभासः। शत्रूणां चानुचितं दैन्यादीति द्वितीयेऽर्धे भावाभासः, तौ च राजविषयस्य रतिभावस्याङ्गम् । अत्र अलंकार ऊर्जस्वि । ८७ (2) 'पश्येत् कश्चिद्' इत्याशङ्का । 'चपल रे चल गच्छ' इत्यसूया । 'का त्वरा' इति धृतिः । 'अहं कुमारी' इति स्मृतिः । 'हस्तालम्बं वितर' इत्यौत्सुक्यम् । 'हह' इति श्रमः । 'ह' इति दैन्यम् । 'व्युत्क्रमः' इति विबोधः । 'कासि यासि' इत्यौत्सुक्यम् । एषां पूर्वपूर्वोपमर्देनोपनिबन्धः । शबलताराजविषयरतेरङ्गम् ।
९१ (३) न चात्र विपरीतलक्षणा, यत् उच्चारणकाल एव न कोपादिति दीप्ततारगद्गदसाकाङ्क्षका कुबलाद् निषेध्यमानतयैव युधिष्ठिराभिमतसंधिमार्गाक्षमारूपत्वाभिप्रायेण
प्रतीतिरिति मुख्यार्थबाधाद्य
भावात् ॥
( 4 ) तथा हि गृहकर्मव्यापृताया इत्यन्यपराया अपि वध्वा इति सातिशयलज्जापारतन्त्र्यबद्धाया अपि । अङ्गानीति । एकमपि न तादृग् अङ्गं यद् गाम्भीर्यावहित्थवशेन संबरीतुं पारितम् ॥ सीदन्तीति । आस्तां गृहकर्मसंपादनं, स्वात्मानमपि धर्तु न प्रभवन्ति गृहकर्मयोगे च स्फुटं तथा अलक्ष्यमाणानीति । अस्माद वाच्यादेव स्मरपारवश्यप्रतीतेश्वमत्कार इत्यर्थः ॥ ९४ (5) मात्रग्रहणेनैतदाह 'यथा विधिनिषे
माणिक्यचन्द्र
पृ.
१५२ (1) अत्र पश्यतामित्यनादरे षष्ठी, पश्यतः प्रियाननादृत्येत्यर्थः । भावस्येति । रिपुस्त्रीणां रत्यभावे सैनिकानां हठात् प्रवृत्त्या रसाभासः शत्रूणां च रत्यभावे दैन्याद्यनुचितमित्युत्तरार्धे भावाभासः। तौ च राजविषयरतेङ्गम् । अत्रोर्जख्यलङ्कारः । १५३ (2) पश्येत्कश्चिदित्याशङ्का । चञ्चल चल गच्छेत्यसूया । का त्वरेति धृतिः कुमार्यस्मीति स्मृतिः । हस्तालम्बं वितरेत्यौत्सुक्यम् । हेति श्रमः । हेति दैन्यम् । व्युत्क्रम इति बाधः । क्वासि यासीत्यौत्सुक्यम् । एषां पूर्वपूर्वोपमर्देन वन्धः शबलता नृपविषयरतेरङ्गम् ।
१५९ (3) न चात्र विपरीतलक्षणा, यत उच्चारणकाल एव न कोपादिति दीप्ततारगद्गदसाका काकुबलानिषेधस्य निषेध्यमानतयैव युधिष्ठिरेष्टसन्धेरक्षमणरूपत्वाभिप्रायेण प्रतीतिरिति मुख्यार्थबाधाद्यभावात् ।
१५९-६० (4) गृहकर्मव्यापृतायाः अन्यकमरताया अपि । वध्वाः सातिशयलज्जा परवशाया अपि । अङ्गानीति बहुवचनेनैकमपि न तादृशमङ्ग यदात्मानं संवरीतुं शक्नोति । सीदन्ति आस्तां गृहकर्म, स्वमपि नालं धर्ते, गृहकर्मयोगे च तथा स्फुटमलक्षमाणानीत्यस्माद्वाच्यादेव स्मरपारवश्यप्रतीतेश्वमत्कारः ।
१६२-१६३ (5) मात्रशब्दादेतदुच्यते यद्वि