________________
INTRODUCTION : APPENDIX A
[37
सोमेश्वर
माणिक्यचन्द्र
६६ (14) नामसभ्यार्थ प्रति न वाचकत्वं,
तद्वशाच्चआचाररूपं काव्यं श्रुतिदुटम् । तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते, तथा प्रकृतेऽपि पदानां व्यञ्जकत्वमुखेन ध्वनिव्यवहारः॥ न च ध्वनिव्यवहारे वाचकत्वं प्रयोजकं,
व्यञ्जकत्वेन तस्य व्यवस्थानात् ॥ ७३ (15) प्रबन्धप्रतिपाद्यन ह्यर्थेन गृध्रगो
माय्योर्भक्षणाभिप्रायो व्यज्यते । स चाभिप्रायः शान्तरसनिष्ठ एव ।
७४ (16) पदत्रयमेव यावन्न याति तावद्
धृत इति प्रेमातिशयो ध्वन्यते। ७५ (17) सर्वत्र सुवादीनामभिप्रायविशेषा
भिव्यञ्जकत्वम् । स तु अभिव्यतोऽभिप्रायो यथास्वं विभावादि
रूपताद्वारेण रसादीन् व्यनक्ति ॥ ८१ (18) एवमुद्दीपनविभावोबोधितविप्र-
लंभः परस्पराधिष्ठानत्वाद् रतेविभावानां साधारण्यमभिमन्यमान इत एव प्रभृति हृदये प्रियां
निधायैव स्वात्मवृत्तान्तं तावदाह । ८२ (19) रामशब्दार्थध्वनिविशेषावकाश-
दानाय कठोरहृदय-पदम्। यथा 'तद् गेहम्' इत्युक्तेऽपि 'नतभित्ति' इति । अन्यथा राम-पदं दशरथकुलोद्भवत्वकौशल्यास्नेहपात्रत्ववाल्यचरितादिधर्मान्तरपरिणतमर्थ कथं न ध्वनेत् । 'अस्मि' इति स एवाहं भवामीत्यर्थः।
१२१ (14) मसभ्यार्थ प्रति न वाचकत्वं कि
न्तु स्मारकत्वं, तद्वशाच चारुरूपं काव्यं (श्रुति)दुष्टमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते, तथा प्रकृतेऽपि पदानां व्यञ्जकत्वमुखेन ध्वनिव्यवहारः। न च ध्वनिव्यवहारे वाचकत्वं प्रयोजकं, व्यञ्जक
त्वेन व्यवस्थानादिति...। १३३ (15) भारतोक्तगृध्रगोमायुसंवादनाम
प्रबन्धप्रतिपाद्यनार्थेन गृध्रगोमायोर्भक्षणाभिप्रायो व्यज्यते ।
स चाभिप्रायः शान्तरसनिष्ठः । १३५(16) यावत्पदत्रयमपि न याति तावत्
धृत इति स्नेहातिशयो व्यङ्ग्यः । १३६ (17) सर्वत्र सुबादीनामाकूतविशेषव्य
जकत्वम् । स त्वाकूतो व्यक्तः सन् यथायोगं विभावादिरूपता
द्वारेण रसादिकं व्यनक्ति। १४४-१४५ (18) एवमुद्दीपनविभावबोधित
विप्रलम्भोऽन्योन्याश्रयत्वाद्रतेर्विभावानां साम्यं मत्वा इत एव प्रभृति प्रियां हृदि न्यस्यैव खं
वृत्तान्तं रामस्तावदाह ...। १४५ (19) रामशब्दार्थव्यङ्गयविशेषावका
शदानाय कठोरहृदयपदम् । अन्यथा रामपदं दशरथकुलोत्पत्तिकौसल्यानेहपात्रत्वबाल्यचरित्रताटकावधादिधर्मान्तरपरिणमितमर्थ कथं नु ध्वनयेत् । अस्मि स एवाहं भवामीति ।