________________
उ. ४]
INTRODUCTION APPENDIX A
सोमेश्वर
पृ.
४५ (5) काव्येऽपि च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्त्तयादिप्रकारद्वयेनालौकिकप्रसन्नमधुरौजस्विशब्दसमर्प्यमाणविभावादियोगादियमेव रसना वार्ता | (6) यन्मुनिः काव्यार्थान् भावयतीति भावः । अस्यार्थः । पदार्थवाक्यार्थी रसेष्वेव पर्यवस्यत इत्यसाधारण्यात् प्राधान्याच्च काव्यस्यार्था रसाः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः । नतु अर्थशब्दोऽभिधेयवाची रसादीनां स्वशब्दानभिधेयत्वात् ।
(7) सर्वप्रमातॄणां यो रसनीयः सर्वप्रमातृतावलम्बनेनैव रस्ते, अत एव नाटकमण्डपान्तः प्रविष्टशः सर्वे हृदयसंवादभाजो भवन्तीत्युच्यते ।
(8) साधारण्यमहिना सकलयोग्यत्वसहिष्णुभिः शब्दादिविषयमयैरातोद्यगान विचित्रमण्डपविदग्धगणिकादिभिरुपरञ्जनं श्रितम् ।
मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छाद्यते, गाढप्राक्तन संवित्संस्काराश्च काव्यबलानीयमानापि न तत्र रामधीर्विश्राम्यति । तत एवोभयदेशकालत्यागः । रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टा नटे देशकालनियमेन रतिं गमयन्ति, यस्यां स्वात्मापि तद्वासनावत्त्वादनुप्रविष्टोऽत एव न तटस्थतया रत्यवगमः । न च नियतकारणतया येनार्जनाभिष्वङ्गादिसंभावना न च नियतपरात्मैकगततया येन दुःखद्वेषाद्युदय:, तेन साघारणीभूता संतानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः
४६ (9) संक्षेपश्चायं
[ 35
माणिक्यचन्द्र
पृ.
७५ (5) काव्ये च लोकनाट्यधर्मिस्थानीयेन स्वभावोक्तिवक्रोक्तिप्रकारद्वयेन लोकोत्तरप्रसन्नमधुरौजस्विशब्दसमर्प्यमाणविभावादियोगादियमेव रसवार्ता |
७७ (6) यन्मुनिः 'काव्यार्थान् भावयन्तीति भावाः' इति । असाधारण्य प्राधान्याभ्यां काव्यार्था रसाः, पदार्थवाक्यार्थी तु रसेषु पर्यवस्यतः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः, न त्वर्थशब्दोऽभिधेयवाची । रसादेः स्वशब्देनानभिधेयत्वात् ।
७८ ( 7 ) सर्वप्रमातृतावलम्वनेनैव सरस्यते । अत एव रङ्गमण्डपान्तः प्रविप्रानां सर्वेषां हृदयसंवादभागि त्वमुच्यते ।
( 8 ) साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयैरातोद्यगान विचित्रमण्डपविदग्धगणिकादिभिरुपरञ्जनमाश्रितम् । ८१-८२ (१) तदयमत्र संक्षेपः- मुकुटप्रतिशीर्षकादिना तावन्नटधीराच्छाद्यते । गाढप्राक्तन संवित्संस्काराच्च काव्यवलोपढौक्यमानाऽपि न तत्र रामधीर्विश्राम्यति । अत एवोभयदेशकालत्यागः । रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्रावलोकिता देशकालानियमेन तं गमयन्ति । यस्यां स्वात्माऽपि तद्वासनावत्वादनुप्रविष्टः । अत एव न ताटस्थ्येन रत्यवगममः न च निर्हेतुतया, येनार्जनाभिष्वङ्गादिभावना । न च नियतपरामैकगततया, येन दुःखद्वेषकामित्वादयः । तेन साधार