________________
10]
KAVYAPRAKASA-SAMKETA
[उ.२
सोमेश्वर
माणिक्यचन्द्र
२१(13) न तु परार्थोऽभिधीयत इति ।
गोशब्देन स्वार्थसहचारिगुणलक्षणापूर्वं तदभेदेन वाहीकगताः खसदृशा गुणा एव लक्ष्यन्ते, सव्यवधानशब्दव्यापारात् । न तु वाहीकार्थोभिधीयत इत्येकलक्षणागभैयं तृतीयकक्षायां लक्षणेत्याहुः। 'अभिधीयत' इति । लक्ष्यते ।
२१ (13) मन्यन्ते । एवमन्यत्रापि । तेने
यमुपचारमिश्रा । लक्षणाद्वयगर्भीकारेण चतुर्थकक्षायां लक्षणेति । चतुर्थकक्षात्वं लक्षणाया अभिधापेक्षया झेयम् । लक्ष्यमाणगुणयोगेन गोशब्दो वाहीकलक्षणया प्रवर्तत इत्यर्थः । गर्भलक्षणयोरन्त्यलक्षणार्थ प्रवृत्तत्वात् तत्प्रयोजनेन प्रयोजनवत्त्वं न तु तयोभिन्नं प्रयोजनम् । न तु परार्थो- गोशब्देन स्वार्थसहचारिगुणलक्षणापूर्व तदभेदेन वाहीकस्थाः स्वतुल्या गुणा एव लक्ष्यन्ते । सव्यवधानव्यापारात् । न तुवाहीकार्थोऽभिधीयत इत्येकलक्षणागर्भेयं तृतीयकक्षायां लक्षणेत्याहुः । 'अभिधीयत' इति लक्ष्यते।
(14) साधारणेति । गोर्वाहीकस्य साधा
रणाः सदृशा ये गुणास्तदाश्रयेण वाहीकार्थ एव लक्ष्यः। अभिधेयेति। मुख्यादर्थाद् अविनाभूता तत्संबद्धैव यार्थान्तरप्रतीतिःसा लक्षणा शुद्धत्यर्थः। लक्ष्यमाणैश्च जाड्यादिभिः संबन्धाद् या वृत्तिः सव्यवधानार्थनिष्ठः शब्दव्यापारः सा गौणी । नान्तरीयकत्वमिति । न अन्तरं नान्तरम् । अविनातत्रभवं नान्तरीयं, तदेव नान्तरीयकमविनाभावि, येन विना यन्न भवति तन्नान्तरीयकं, तादात्म्यतदुत्पत्तिलक्षणं जातिव्यक्त्यादिवत । तत्त्वे हीति । नान्तरीयकत्वेन हि मञ्चपुरुषयोरविनाभावोऽस्ति । अविनाभावे चेति । नान्तरीयकत्वे गौरनुबन्ध्य इत्यादौ ।
(14) साधारणेति । गोर्वाहीकस्य च सा
धारणास्तुल्या ये गुणास्तदाश्रयेण वाहीक एव लक्ष्यः । अभिधेयेति। मुख्येनार्थेनाविनाभूतस्य केनापि संबन्धेन संबद्धस्यान्यवस्तुनो या प्रतीतिः सा लक्षणा शुद्धत्यर्थः । लक्ष्यमाणैर्गुणैर्जाड्यादिभिः संबन्धाद् या तु वृत्तिः सान्तरार्थनिष्ठः शब्दव्यापारः सा गौणी। 'नान्तरीयकत्वमिति' नान्तरमविनाभावः। बत्र भवं नान्तरीयम् । गहादित्वादीयः। तदेव नान्तरीयकमित्ति । अविनाभावि येन विना यन्न भवति तन्नान्तरीयकं तादात्म्यतदुत्पत्तिलक्षणं कृतकत्वानित्यत्वादिवत् । तथात्वे हीति । नान्तरीयं हीत्यर्थः । न हि मश्चापुरुषयोरविनाभावोऽस्ति । इत्युक्तमिति।गौरनुबन्ध्यइत्यत्र ।