SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उ. २] INTRODUCTION : APPENDIX A [29 सोमेश्वर पृ. माणिक्यचन्द्र १८ (9) यथान्यैर्मुकुलादिभिरुक्ता। न च क्रमेण द्वयोर्वाच्यता । शब्दबुद्धि कर्मणां विरम्य व्यापाराभावात् । १९ (10) अयमभिप्रायः--यत्र शब्दः सर्वथा स्वमर्थे त्यजन्नन्यं लक्षयति तत्र लक्षणेन तटादिज्ञापनेन लक्षणा । यत्र तु स्वार्थमपि वदन्नन्यमुपा दत्ते तत्रोपादानेनेति। (11) एतदेव द्रढयति-अनयोरिति । त टादीनां लक्ष्याणां प्रतिपादने भेदात्मकं न ताटस्थ्यम् । कुन्तपुरुषयोगङ्गातटयोश्चाभेद एवेति यदन्यैस्तटस्थे लक्षणा शुद्धत्युक्तं तषितमित्याह-तत्त्वप्रतिपत्तौ हीति । भेदे तु गङ्गासंबन्धमात्रप्रतीतेन लक्षणाविशेषः। १८ (9) यथान्यैर्भट्टमुकुलादिभिरुदाहृतान च क्रमेण द्वयोर्वाच्यता विरम्य व्यापारद्वयाभावादित्यन्योक्तेनाह। १९ (10) अयमभिप्रायः। यत्र शब्दः स्वमर्थ सर्वथा त्यजन्नन्यं लक्षयति तत्र लक्षणेन लक्षणा । यत्र तु स्वार्थमपि वदन्नन्यमर्थमुपादत्ते तत्रो पादानेनेति । (11) एतदेव द्रढयन्नाह-अनयोरिति । तटादीनां लक्ष्याणां प्रतिपादने मेदात्मकं न तटस्थत्वम् । किंतु कुन्तपुरुषयोगङ्गातटयोश्च अभेद एवेति यदन्यैस्तटस्थे लक्षणाशुद्धत्युक्तं तदयुक्तमित्याह-तत्त्वप्रतिपसोहीति । तस्य भावस्तत्त्वमभेदः, तस्य प्रतिपत्तौ हि प्रतिपिपादयिषितमशब्दान्तरवाच्यं यदपरिमितं रौद्रत्वादिपावनत्वादिप्रयोजनं तस्य प्रतीतिः । मेदे तु गङ्गासंबन्धमात्रप्रतीतिर्न लक्षणाया वि. शेषः॥ २०-२१(12)यत्रोपमानगतगुणसदृशगुणयो गलक्षणां पुरःसरीकृत्य उपमेये उपमानशब्द आरोप्यते तौ गौणौ, गुणेभ्य आगतत्वाद् गौणशब्दवाच्यौ। २१ (13) स्वार्थो गोशब्दस्य गोपिण्डः, परार्थो वाहीकादिः। गोशब्दो वाहीकशब्देन अनुपपद्यमानसमानाधिकरणत्वाद् बाधितमुख्यार्थः सन् स्वाभिधानपुरःसरं स्वसहचारिजाड्यादिगुणाल्लक्षयित्वा तत्सदृशवाहीकगतजाड्यादिगुणलक्षणाद्वारेण गोगुणसदृशगुणोपेते वाहीके उपचरितः, तेनेयमु- पचारमिश्रा । लक्षणाद्वयगर्भीकारेण चतुर्थकक्षायां लक्षणेति लक्ष्यमाणगुणमुखेन गोशब्दो वाहीके लक्षणया प्रवर्तत इत्यर्थः । २१ (12) यत्रोपमानगतगुणतुल्यगुणयोगल क्षणां पुरःसरीकृत्योपमेय उपमानशब्द आरोप्यते तो गौणौ । गुणेभ्य आगतत्वाद् गौणशब्द वाच्यौ । (13) स्वार्थो गोशब्दस्य गोत्वं पिण्डाक तिर्वा । व्यक्त्याकृतिजातयस्तु पदार्थ इति वचनात् । परार्थो वाहीकः । तथा च गोशब्दो वाहीकशब्देऽनुपपद्यमानसामानाधिकरण्याद् बाधितस्वार्थः सन् स्वाभिमानपूर्व स्वार्थसहचारिजा ड्यादिगुणोल्लक्षयित्वा तत्तुल्यवा२१ हीकस्थजाड्यादिगुणलक्षणाद्वारेण गोगतगुणतुल्यगुणोपेते वाहीक उपचरितः। शब्दोपचारस्याओंपचारादिना भावित्वात् तदर्थोऽपि । केचिच्छब्दोपचारमेव.
SR No.034219
Book TitleKavya Prakash Part 02
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages232
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy