________________
उ.२]
INTRODUCTION : APPENDIX A
[27
सोमेश्वर
माणिक्यचन्द्र
१६-१७ (7) पारेण लक्ष्यते । आदिशब्दाद्
द्विरेफद्विकानुलोम्यप्रातिलोम्यलावण्यदयः । द्विरेफशब्देन रेफद्वितययोगिभ्रमरपदलक्षणार्थलक्षणाद्वारेण रूढ्यनुवृत्तिरेव षट्पदादौ क्रियते। तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास । इत्यादौ तुरङ्गकान्ताननहव्यवाहशब्दो वडवामुखाग्नौ लक्षणया प्रवृत्तः । न च तत्र रूढः । व्यव हारेऽनभ्यनुशातत्वादिति द्रष्टव्यम् । सति तु गुप्तार्थप्रतिपादनादिप्रयोजन एवंविधलक्षणा अप्यदुष्टाः। यद्भट्टकुमारिल:निरूढा to त्वशक्तितः। 'निरूडा' इति भ्रष्टोपाचारप्रतीतयः ।
लक्षणा' इति लक्षणाशब्दाः । 'अभिधानवद्' वृक्षादि नामवत् ।
१५-१६ (7) द्विरेफादयः। द्विरेफशब्देन हि
रेफद्वितययोगिभ्रमरशब्दे लक्षणाद्वारेण रूढ्यनुवृत्तिरेव क्रियते यथा वा लावण्यादयो लवणरसयुक्तत्वादेः स्वार्थाद् अन्यत्र हृद्यत्वादौ लक्ष्ये रूढाः ॥ तुरङ्गकान्ताननहव्यवाहज्वालेव भित्त्वा जलमुल्ललास । इत्यादौ तु तुरंगकान्ताननहव्यवाहशब्दो वडवामुखाग्नौ लक्षणया प्रयुक्तः । न चासौ तत्र रूढो, वृद्धव्यवहारेष्वननुशातत्वादितिदुष्टत्वम् । सति तु गुप्तार्थप्रतिपादनादिप्रयोजनसद्भावे एवंविधानामपि लक्षणानामदुष्टत्वम् । यद् भट्टकुमारिल:निरूढा to त्वशक्तितः। 'निरूढा' इति भ्रष्टोपचारप्रतीतयः । 'लक्षणा' इति लक्षणाशब्दाः ।'अभिधानव
दिनामशब्दवत्॥ १६.१७ (8) सान्तरः सव्य[वधानस्तटा-
दिलक्षणोऽर्थस्तदाश्रया क्रिया शब्दव्यापारो लक्षणा । तथा हि गङ्गाशब्दोऽभिधेयस्य स्रोतोविशेषस्य घोषाधिकरणतानुपपत्त्या मुख्यशब्दार्थबाधे योऽसौ समीप-समीपिभावात्मकः संबन्धस्तदाश्रयेण तटं लक्षयति । लक्षणायाश्च प्रयोजन तटस्य गङ्गात्वैकार्थसमवेता. संविज्ञातपदपुण्यत्वादिप्रतिपादनं व्यङ्ग्यम् । न हि तत्पुण्यत्वादिशब्दान्तरैः स्प्रष्टुं शक्यते। तद्योगश्च मुख्यार्थासन्नत्वम् । तत् पश्चधा आचार्यभर्तृ मित्रेण उक्तम्
अभिधेयेन संबन्धात् साहश्यात् समवायतः । वैपरीत्यात् क्रियायोगाल्लक्षणा पश्चधा मता॥
१७ (8) सव्यवधानस्तटादिलक्षणोऽर्थस्त
दाश्रया क्रिया शब्दव्यापारो लक्षणा । तथाहि । गङ्गाशब्दाभिधेयस्य स्रोतसो घोषाधारतानुपपत्तेर्मुख्यार्थबाधे योऽयं समीपसमीपिभावात्मा संबन्धस्तदाश्रयेण तटं लक्षयति । लक्षणायाश्च प्रयोजनं तटस्य गङ्गात्वैकार्थसमवेतपुण्यत्वमनोरमत्वशैत्यादिप्रतिपादनं व्यङ्ग्यम् । न हि तत् पुण्यत्वादिशब्दान्तरैः स्प्रष्टुं शक्यते । तद्योगश्च तत्रासन्नत्वम् । तत्पश्चधोक्तं अभिधेयेन up to पञ्चधा मता । संबन्धाद्यथागङ्गायां घोषः । सादृश्याद्यथागौर्वाहीको गौरेवायमित्यादी मुख्यार्थस्य सानादिमत्त्वेन प्रत्यक्षादिना प्रमाणेन बाधेऽभिधे