________________
26]
KAVYAPRAKASA-SANKETA
सोमेश्वर
पृ.
१४-१५ (5) न संकेतः कर्तुं शक्यत इति जात्युपहिता व्यक्तिः शब्दार्थः इति वैशेषिकाः ॥ अपोह इति । जातिव्यक्तितद्योगजातिमबुद्ध्याकाराणां शब्दार्थत्वस्य अनुपपद्यमानत्वाद् गवादिशब्दानामगोव्यावृत्त्यादिरूपः शब्दार्थः इति बौद्धाः ।
( 6 ) शब्दस्य मुख्येन लाक्षणिकेन वा व्यापारेण अर्थावगतिहेतुत्वमिति मुख्यं तावद् अर्थमाह-स मुख्योऽर्थ इति । साक्षात् संकेतितो मुखमिव हस्ताद्यवयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयमानत्वात् । यदुक्तम्शब्दव्यापारतो to इप्यते ॥ मुख्यार्थविषयः शब्दोऽपि मुख्यः ॥ तत्रेति । अर्थविषये । समयापेक्षा वाच्या अवगमनशक्तिरभिधाशक्तिः ॥ १५-१६ (7) वाचकस्य शक्तिमुक्त्वा लाक्षणिकस्य लक्ष्यार्थदर्शनद्वारेण व्यापारमाह-मुख्यार्थेति । मुख्यस्यार्थस्य अनुपपत्तेरनुपयोगाच्च प्रत्यक्षादिप्रमाणेन बाधे तेन मुख्येनार्थेन सह लक्ष्यस्यार्थस्य योगे संबन्धे सादृश्यादौ सति रूढेः प्रयोजनाद् वातिपarrant [a]लत्वादेरशब्दान्तरवाच्यात् ताद्रूप्यप्रतिपत्यादिरूपाद् अमुख्यः शब्दव्यापारो लक्ष्यार्थविषयो लक्षणाशक्तिः । कारिकामेव उदाहरणद्वारेण व्याकुर्वन्नाह-कर्मणीति । कुशान लातीति-दर्भग्रहणायोगाद् मुख्यार्थबाधे विवेचकत्वादौ संबन्धे प्रसिद्धे प्रसिद्धिवशात् प्रवीणलक्षणो लक्ष्योऽर्थो लक्षणाव्यापारेणावगम्यते । आदिशब्दाद्
पृ.
१५
उ. २
माणिक्यचन्द्र
इति वैशेषिकादयः । अपोह इति । जातिव्यक्तितद्योगजातिमद्बुद्ध्या- काराणां शब्दार्थत्वस्याननुपपाद्यमानत्वाद् गवयादिशब्दानामगोव्यावृत्त्यादिरूपोऽपोहः शब्दार्थ इति बौद्धाः ।
१६ ( 6 ) शब्दस्य मुख्येन लाक्षणिकेन व्यञ्जनात्मकेन वा व्यापारेणार्थावगतिहेतुत्वमिति मुख्यं तावदर्थ - माह-स मुख्योऽर्थ इति । स सा क्षात् संकेतितो मुखमिव हस्ताद्यवयवेभ्योऽर्थान्तरेभ्यः प्राग्र ज्ञायमानत्वात् । मुख्यार्थविषयः शब्दोऽपि मुख्यः । तत्रेति । अर्थविषये । समयापेक्षया वाच्यावगमनशक्तिरभिधाशक्तिः ।
(7) अथेदानीं लाक्षणिकस्य लक्ष्यार्थदर्शनद्वारेण व्यापारमाह-मुख्यार्थेति । मुख्यार्थस्यानुपपत्तेरनुपयोगाच्च प्रत्यक्षादिप्रमाणेन बाघे तेन मुख्यार्थेन सह लक्ष्यार्थस्य योगे संबन्धे सादृश्यादौ सति रूढेः प्रयोजनात् पावित्र्यशैत्यादेरशब्दान्तरवाच्यात् ताद्रूव्यप्रतीत्यादिरूपादन्योऽर्थो यलक्ष्यते प्रतिपाद्यते यत्साम्यादमुख्यः शब्दव्यापारो लक्ष्यार्थनिष्ठो लक्षणाशक्तिः । यदिति । वाक्यार्थनिर्देशः । सेति । विधीयमाना लक्षणा | सर्वनामपदं हि कदाचिदनूद्यमानलिङ्गमादत्ते कदाचि - द्विधीयमानलिङ्गमिति । उदाहरणद्वारेण व्याकरोति-कर्मणीति । कुशाँ लातीति दर्भग्रहणायोगान्मुख्यार्थबाधे विवेचकत्वादी संबधे रूढेः प्रवीणोऽर्थो लक्षणाव्या