SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 24] KAVYAPRAKASA-SA MKETA सोमेश्वर पृ. ३ (१) रसस्याङ्गिनो योऽङ्गभूतो व्यञ्जनात्मा व्यापारस्तन्निष्ठतया विसहशम् (10) यद् भट्टनायकः शब्दप्राधान्यं to काव्यगीर्भवेत् । ९ ( 11 ) च्युतं चन्दनं, न तु क्षालितम् । निर्मृष्टो न तु किञ्चिन्मृष्टः । दूरमनञ्जने, निकटे तु साञ्जने । पुलकिता तन्वीति चोभयं विधेयम् । (12) व्यङ्गयपक्षे, अधम पदं च व्यञ्जकम् । अत्र शब्दशक्तिमूलो वस्तुध्वनिः । ( 13 ) तथात्रैव स इव त्वं त्वमिव सोऽव्यधम इत्युपमेयोपमालंकारो व्य जयः । ( 14 ) कस्याश्चित् संकेतस्थानं जीवितसर्वस्वायमानं धार्मिकसंचरणान्तरायदोषात् तदवलुप्यमान पल्लवादिविच्छायीकरणाच्च त्रातुमियमुक्तिः । १० ( 15 ) नागतेति व्यङ्ग्यस्यार्थस्य मलिना मुखच्छायेत्यनयैवोक्तत्यैव विषयीकृतत्वमिति व्यङ्गयाद्वाच्यमेव सातिशयम् । (16) यच्च रसभावादि व्यङ्गयार्थशून्यं केवलवाच्यवाचकवैचित्र्यमात्रं तचित्रं काव्यमित्याह । शब्दचित्रमिति । विस्मयकृद् वृत्तादिवशात्, न तु सहृदयचमत्कारकारिरसनिष्यन्दमयमित्यर्थः । काव्यानुकारित्वाद् वा चित्रं लेख्यमात्रत्वाद् वा कलामात्रत्वाद् वा । [ उ. १ माणिक्यचन्द्र पृ. ४ ( 9 ) रसस्याङ्गिनोऽङ्गभूतो यो व्यापारस्तत्परतया विलक्षणम् (10) यदाह भट्टनायकः शब्दप्राधान्यं to काव्यगीर्भवेत् । ८ ( 11 ) च्युतं न तु क्षालितम् । क्षालितमित्युक्ते व्ययार्थप्रतीतिरेव न स्यात् । वाप्यामेव क्षालनभावात् । निर्मृष्टो न तु किञ्चिन्मृष्टः । दूरमनञ्जने निकटे तु साञ्जने । पुलकितेति तन्वीति चोभयं विधेयम् । ९ (12) व्यङ्ग्यपक्षेऽधमपदस्याधमपदसहायानां चन्दनच्यवनादीनां व्यञ्जकत्वमित्येषो अर्थशक्तिमूलो वाक्यप्रकाइयो ध्वनिः । (13) तथात्रैव स इव त्वं त्वमिव सोऽयधम इत्युपमेयोपमालंकारो व्य ङ्गयः । (14) कस्याश्चित् संकेतस्थानं धार्मिकसंचरणान्तरायदोषात् तदवलुप्यमान पल्लवादिविच्छायीकरणाच्च त्रातुमियमुक्तिः । ( 15 ) नागतेति व्यङ्गयस्यार्थस्य मलिना मुखच्छायेत्यनयोक्त्या विषयी - कृतत्वमिति वाच्यमेव चमत्का रीति । ९ ( 16 ) यच्च काव्यं केवलवाच्यवाचकवैचित्र्यभाक् तच्चित्रम् । रसादिव्यङ्गयार्थ' रहितत्वेन काव्यानुकारित्वाद् विस्मयकारिवृत्तादियोगाद् वा लेख्यसादृश्याद् वा कलामात्रत्वादिना वा । † A. S. °र्थत्वेन । 'रहितत्वेन in Shamhastry's edition, Mysore 1922
SR No.034219
Book TitleKavya Prakash Part 02
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages232
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy