SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 108 KAVYAPRAKASA-SAMKETA [उ. १० रुचक सोमेश्वर ७२ (59) पूर्ववदिति - तथा ह्यत्र उपमा- श्लेषस्योत्थापकतयोपकारिणी, श्लषोऽपि तथैव, रूपकोत्प्रेक्षयोस्तैस्तु समस्तैः साक्षात् पारम्पर्येण च यथासम्भवमुपमोपकृता, तत्समकक्षतया, एवं तस्याः सचेतसां प्रचुरच मत्कृतिहेतुत्वात्। ७२-७३(60) मुख्येऽपीति-उपमापक्षे कल ङ्क उपचार एवेति । न तदाश्रयणं युक्तं,तस्यागतिकत्वात् । अतिपातिनो जवेन वजन्तः सारावाः सशब्दा नदा यत्र तादृशीयं तटी भासते। अभिहतो दानवानां रासः सिंहनादो येनेति शम्भोः सम्बो. धनम् । सा चेयं गजसंहतिः यूथमतिपाति विशेषेण परित्रायते । अविरतेन सन्ततेन दानेन मदेन वरा श्रेष्ठा, सारा स्थिरा, वनं दयते रक्षति या [दा] देङ रक्षणे अवनं रक्षणं ददाति या। ७३ (61) अभिधीयत इति - यद्यपि सा- धकत्वं बाधकत्वं चोभयमस्यास्ति तथापि प्रधानेन व्यपदेशा भवन्तीति न्यायाद बाधकत्वेनैवास्य तु व्यपदेशो न्याय्यः, बाधकत्वस्य बलीयस्त्वेनोत्कट तया प्रतीतः। (62) स्पष्टेति । यद्यपि साङ्गमिदं रू- पकमखिलवाक्यव्यापि तथापि प्रत्यवयवं रूपकस्य सद्भावात्तु तथा व्यपदेश इत्येकपदानुप्रवेशोऽस्य न विरुध्यते। ३३८ (59) पूर्ववदिति । तथा ह्यत्र उपमा श्लेषस्य उत्थापकतया उपका. रिणी । श्लेषोऽपि तथैव रूपकोत्प्रेक्षायाः (क्षयोः) । तैस्तु समस्तैः साक्षात् पारंपर्येण च यथासंभवमुपमा उपकृता । तदुपकृतैव सा सचेतसां चम त्कृतिं करोति। (60) मुख्येऽपीति। उपमापक्षेकलङ्के। उपचार एवेति । न च तदाश्रयणं युक्तं, तस्य अगतिकगतित्वात् । अतिपातिनोजवेन व्रजन्तः सारावा नदा यत्र । तादृशीयं तटी भ्राजते । अभिहतो दानवानां रासः सिंहनादो येनेति शम्भोः संबोधनम् । सा चेयं गजतायूथं गजसमूहम् । अतिपाति परित्रायते अविरतिना संततेन दानेन । वरा श्रेष्ठा । सारा स्थिरा । वनं दयते रक्षति या, अवनं रक्षणं वा ददाति । ३४१ (61) ... ..यद्यपि साधकत्वं बाध कत्वं चोभयमपि अस्ति, तथापि 'बाधकत्वेनैव व्यपदेशा भवन्ति' इति न्यायात् बाधक त्वस्यैव प्राधान्यं, साधकत्वापेक्षया बलीयस्त्वेन उत्कटतया प्रतीतेः। ३४२ (62) यद्यपि सावयवमिदं रूपकम खिलवाक्यव्यापि तथापि प्रतिपदं रूपकसद्भावात् तथा व्यपदेश इत्येकपदानुप्रवेशो न विरुद्धः।* * Cf. M. (77) p. 454.
SR No.034219
Book TitleKavya Prakash Part 02
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages232
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy