________________
ॐ. १० ]
रुचक
INTRODUCTION APPENDIX B
पृ.
७० ( 52 ) सम्बन्धीति सम्बन्धि वक्रं, तेनेन्दोः सम्बन्धः समत्वात् । ( 53 ) अपाङ्गेति । अत्राङ्गकेन etc.
७०-७१(54) दृष्ट इति- दृशिरत्रोपलब्धिमात्रवचनः । स्मारिता इति घटादिष्वपठितस्य स्मरतेर्मित्वेऽपि "मितां ह्रस्वः” इति [ ह्रस्वः ] तद्विधौ " वे” त्यस्यानुवृत्तस्य व्यवस्थितविभाषात्वात् ।
७३ ( 55 ) अनयैव रीत्येति-अनेन बहुप्रकारं वैचित्र्यमस्य दर्शितम् । तेनोपमानस्योपमेयतोऽनुकम्प्यतामाप्रतिपादनमपि प्रतीपम् । यथा - वदनमिदं to कज्जलवादति ॥ (56) धवलः कामुकोऽपि, रञ्जितं जनिताभिषङ्गं रागप्रसक्तिरपि । अत्र पूर्वार्धे विरोधः न तूत्तरत्र, भिन्नाधारतयैव रक्तारक्तत्वयोः प्रतीतेः ।
७२ ( 57 ) अङ्गेत्यभीष्टामन्त्रणे, सैव नान्यादृशीया न चीयत इत्यध्याहतेन यदा समन्वयः । (58) यथासम्भवमिति - न सर्वेषामेव लक्षितानामपि तु केषाञ्चित् । तत्रापि तेषां मध्ये कचिद् द्वयोः क्वचित् त्रिचतुर्णामिति यथायोगम् । संसृष्टेश्च विषयभेदेन त्रिरूपाया अपि संसृष्ट्या चैकरूपयेति प्रागुक्तभिधानं न विरुध्यते, नैरपेक्ष्यलक्षणस्य रूपस्याभिन्नत्वात् । सङ्करस्तु स्वरूपेणैव नानागतत्वेनावभासत इति युक्तस्तत्र त्रिरूपतया व्यवहारः ।
[107
सोमेश्वर
पृ.
३२७ ( 52 ) संबन्धि वक्त्रं तेन हीन्दोः संब न्धः समत्वात् ।
३२८ (53) अपाङ्गेति । अत्र दृक्तरलत्वादिनr etc. t
३२९ (54) दृष्ट इति । दृशिरत्र उपलब्धिमात्रवचनः । तद्भवैः प्लाविताम्भोभवैः कुहरुतैः कुहकुहशब्दैः नाभ्यादिनिम्नदेशोत्थैः । स्मारिता इति घटादिपाठे स्मरतेर्मानुबन्धत्वेऽपि 'न खो व्यवस्थितविभाषितस्य वा' इत्यस्यानुवृत्तेः ।
३३१ ( 55 ) अनयैवेति । अनेन अस्य बहुप्रकारं वैचित्र्यं दर्शितम् । तेन उपमानस्य उपमेयताधानं विनानुकम्पनामात्रे प्रतिपादनमपि प्रतीपम् । यथावदनमिदं to कज्जलवत् ॥ ३३४ (56) 'धवलोsसि' इति । रञ्जितं जनिताभिष्वङ्गमपि । रागः प्रसक्तिरपि । अत्र पूर्वार्धे विरोधोऽनन्तरं भिन्नाधारतयैव रक्तारक्तत्वयोः प्रतीतिः ।
३३५ ( 57 ) अङ्ग इतीष्ामन्त्रणे । सैव नान्यादृशी या न चीयते ।
३३६ ( 58 ) यथासंभवमिति न सर्वेषां लक्षितानां, अपि तु केषांचित्, तत्रापि तेषां मध्ये क्वचिद् द्वयोः कचित् त्रिचतुराणामिति यथायोगम् । संसृष्टेश्व विषयभेदेन त्रिरूपत्वेऽपि संसृष्ट्या चैकरूपयेति प्रागुक्तं न विरुध्यते, नैरपेक्ष्यलक्षणस्य रू पस्याभिन्नत्वात् । वक्ष्यमाणसंकरस्तु स्वरूपेणैव नानात्वेनावभासत इति युक्तस्तत्र त्रिरूपताव्यवहारः ।
+ Here the passage is different in wording but is taken by M. ( 66 ) p. 436. This shows that M. also borrows from S.