________________
94]
रुचक
...
KAVYAPRAKASA-SAMKETA
पृ.
४७ (4b) षडधिकेत्यादि-शक्तीनामिच्छाज्ञानक्रियाणां ब्राह्म्यादीनां वामादीनां भूचर्यादीनां करणेश्वरीणा ( ? ) मकारादिरूपामृतादीनामेवंविधानामन्यासामपि फलभेदादारोपितभेदपदार्थवपुषां नाथः प्रभुर्न्यभवद्भावात् । आक्षिप्तनमस्कारो जयत्यर्थ इति । देहादिमितप्रमातृता निमज्जनात् प्रबोधप्रमातृभावोन्मजनेन समाधि (वि)गामी ( शामी ) त्यर्थः । न च शक्तयः परस्परपरिहृतवपुषोऽपि त्वेकैकस्याः शक्तेः सर्वशक्त्यात्मतेत्याह- शक्तिभिः परिणद्ध इति परितः समन्ताद वद्ध:, तेनेशिवादिदशायामपि शोत्रादिवपुः । न चासौ दूर भवतीत्याह - षडधिकेति । षड़भिरधिका दश षोडश या नाड्यस्तासां यत् चक्रं हृत्स्थानचक्रवन्नाड्यादिरूपेण स्वरूपं तन्मध्ये स्थितः स्थितिमान् विश्रान्त आत्मा अ (म ) विकलं चिदात्मरूपं यस्य । उक्तं नन्दशिखायाम् । " हृद्योगं देवि वक्ष्यामि विस्तरेण शृणुष्व तम् । विन्दुर्नादः शिवचैव तत्रैव निवसन्ति ते" त्यादि अथवा हृदये (?) ( ततः ) लक्षयेच्चक्रं ( चक्र ? ) " राजानमेकं तत् षोडदारक" मित्यादि । इडा to वायुसमाश्रिता इत्यादि o (4c) हृदि हृच्चक्रे विशिष्टं निहितं स्वातन्त्र्येणोल्लासितं रूपं ज्योतिरादिरूप आकारो येन । एवस्वरूपोऽसावित्येतत् प्रतिपादनञ्च न विफलमित्याह - सिद्धिद इति । तं विदन्ति यथावज्जानते तथाभूतप्रकाशात्मना प्रकाशन्ते ये तेषाम् । सिद्धीः परापरमुक्ति
[ उ. ७
सोमेश्वर
पृ.
१६९ (4b) 'षडधिके' त्यादि । 'शक्तीनां' इच्छाज्ञानत्रियाणां ब्रह्मण्यादीनां वामा - ( पृ. १७० ) - ज्येष्ठादीनां परादीनां भूचर्यादीनां करणेश्वरीणां अकारादिरूपामृतादीनां, एवंविधानामन्यासामपि फलभेदाद आरोपित भेदपदार्थवपुषां 'नाथो' न्यग्भावनोद्भावनप्रभुः । जयति आक्षिप्तनमस्कारार्थी जयत्यर्थः । देहबुद्धिप्राणपुर्यष्टादिमितप्रमातृतानिमज्जनात्मबोधप्रमातृभावोन्मज्जनेन समाविशामीत्यर्थः ॥ न च शक्तयः परस्परपरिहृतवपुषः, अपि तु एकैकस्याः शक्तेः सर्वशक्त्यात्मतेत्याह - 'शक्तिभिः ॥ परिणद्धः परितः समन्ताद् वद्धः । तेनेशित्रादिदशायामपि ज्ञात्रादिवपुः । न चासौ दूरे भवतीत्याह 'षडधिके'ति । षभिरधिंका दश षोडश या नाड्यः, तासां यच्चक्रं हृत्स्थाने । चक्रं च नाभ्यारादिरूपेण स्वरूपं तन्मध्ये स्थितः स्थितिमान् विश्रान्त आत्माऽविकलं शिवात्मकं रूपं यस्य । यदुक्तम् इडा to वायुसमाश्रिताः ॥ इत्यादि *
१७० (4c) हृदि हच्चक्रे विशिष्टं निहितं स्वातन्त्र्येणोल्लासितं रूपं ज्योतिरादि [य] रूप आकारो येन ॥ एतत्प्रतिपादनं च न निष्फलमित्याह - सिद्धिद इति ।
१७० ( 40 ) सिद्धीः परापरभुक्तिमुक्तिरूपा ददाति यः । तं विदन्ती यथावजानते तेषाम् ॥ न चासावाग
* In R. the explantion is further elaborated by quotations etc. pp. 48, 49, 50. This means that S. has taken only as much as is necessary for explanation, and not put in the whole Tantra lore, as R. does.